संस्कृत-शब्दकोशः

वलाका वलि

वलाहक

वाचस्पत्यम्

वलाहक ||‍ पु० वारि वहति पृषो० । १ मेघे २ मुस्तके च अमरः । ३ पर्वते दैत्यभेदे ५ नागभेदे मेदि० श्रीकृष्णस्य हयभेदे “स्यन्दनस्तु सदानन्दः सारथिश्चास्य दारुकः । तुरङ्गाः शैव्यसुग्रीवमेघपुष्पवलाहकाः” त्रिका० ।


शब्दकल्पद्रुमः

वलाहकः is an alternate of बलाहकः. ब(व)लाहकः || पुं, (बलेन हीयते इति । बल + हा + क्वुन् । यद्बा, वारीणां वाहकः । पृषोदरादित्वात् साधुः ।)
मेघः । (यथा, कुमारे । १ । ४ । “बलाहकच्छेदविभक्तरागा- मकालसन्ध्यामिव धातुमत्ताम् ॥”)
मुस्तकः । इत्यमरः । १ । ३ । ६ ॥ पर्व्वतः । दैत्यविशेषः । नागविशेषः । इति मेदिनी ॥ (यथा, महाभारते । २ । ९ । ९ । “कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ॥” बलाहकसर्पस्तु दर्व्वीकरणामन्तर्गतः । इति सुश्रुते कल्पस्थाने ४ अध्यायः ॥)
रमागर्भोद्भवः कल्किदेवपुत्त्रः । यथा, —
“तथा रमा सिते पक्षे वैशाखे द्बादशीदिने । जामदग्न्याद्व्रतं चक्रे पूर्णं वर्षचतुष्टयम् ॥ पट्टसूत्रं करे बद्ध्वा भोजयित्वा द्विजान् बहून् ॥ भुक्त्वा हविष्यं क्षीराक्तं सुमिष्टं स्वामिना सह ॥ बुभुजे पृथिवीं सर्व्वामपूर्ब्बां स्वजनैर्वृता । सा पुत्त्रौ सुषुवे साध्वी मेवमालबलाहकौ ॥ देवानामुपकर्त्तारौ यज्ञदानतपोव्रतौ । महोत्साहौ महावीर्य्यौ सुभगौ कल्किसम्मतौ ॥” इति कल्किपुराणे ३१ अध्यायः ॥ श्रीकृष्णरथाश्वविशेषः । यथा, —
“स्यन्दनस्तु शतानन्दः सारथिश्चास्य दारुकः । तुरङ्गाः शैव्यसुग्रीवमेघपुष्पबलाहकाः ॥” इति त्रिकाण्डशेषः ॥ (यथाच भागवते । १० । ५३ । ५ । “स चाश्वैः शव्यसुग्रीवमेघपुष्पबलाहकैः । युक्तं रथसुपानीय तस्थौ प्राञ्जलिरग्रतः ॥” जयद्रथस्य भ्रातृविशेषः । यथा, महाभारते । ३ । २५४ । १२ । “जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे ! स एषः । तस्यापरे भ्रातरोऽदीनसत्त्वा बलाहकानीकविदारणाद्याः ॥” नदविशेषः । स तु लवणसमुद्रगामी । यथा, मात्स्ये । १२० । ७२ । “बलाहकश्च ऋषभश्चक्रो मैनाक एव च । विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम् ॥” कुशद्वीपस्थपर्व्वतविशेषः । यथा, तत्रैव । १२१ । ५५ । “बलाहकस्तृतीयस्तु जात्यञ्जनमयो गिरिः ॥” तारापीडस्य राज्ञः स्वनामख्यातो बलाधि- कारी । यथा, कादम्बर्य्यां चन्द्रापीडविद्या- भ्यासकथने । “चन्द्रापीडमानेतुं राजा बलाधि- कृतं बलाहकनामानं आहूय बृहत्तुरगबल- पदातिपरिवृतमतिप्रशस्तेऽहनि प्राहिणोत् ॥”)



Correction: