वाचस्पत्यम्
वलि || पु० वल—इन् । उपहारद्रव्ये ओष्ठ्यादित्वमित्यन्ये ।
शब्दकल्पद्रुमः
वलिः is an alternate of बलिः. ब(व)लिः || स्त्री (बलति संवृणोतीति । बल संवरणे + इन् ।)
जरया श्लथचर्म्म । तत्- पर्य्यायः । चर्म्मतरङ्गः २ त्वगूर्म्मिः ३ त्वक्- तरङ्गः ४ । इति राजनिर्घण्टः ॥ जठरा- वयवः । (यथा, कुमारे । १ । ३९ । “मध्येन सा वेदिविलग्नमध्या बलित्रयं चारु बभार बाला ॥”)
गृहदारुप्रभेदः । इति मेदिनी । ले, ५ ॥ गुदा- ङ्कुरः । यथा, —
“पञ्चात्मा मारुतः पित्तं कफो गुदबलित्रयम् । सर्व्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ॥ तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च । सर्व्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ॥ * ॥
वाह्यायान्तु बलौ जातान्येकदोषोल्वणानि च । अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ॥ द्वन्द्वजानि द्बितीयायां बलौ यान्याश्रितान्यपि । कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ॥ सहजानि त्रिदोषाणि यानि चाभ्यन्तरा बलिम् । जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्द्दि- शेत् ॥” इति माधवकरः ॥ (यथा च । “तत्र स्थूलान्त्रप्रतिबद्धमर्द्धपञ्चाङ्गुलं गुदमाहुस्तस्मिन् बलयस्तिस्रोऽध्यर्द्धाङ्गुलान्तर- भूताः प्रवाहणी विसर्ज्जनी संवरणी चेति । चतुरङ्गुलायताः सर्व्वास्तिर्य्यगेकाङ्गुलोच्छ्रिताः । शङ्खावर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः । गजतालनिभाश्चापि वर्णतः संप्रकीर्त्तिताः ॥” इति सुश्रुते निदानस्थाने द्बितीयेऽध्याये ॥ गन्धकः । तत्पर्य्यायो यथा, “गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि । सौगन्धिकश्च कथितो बलिर्बलरसापि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)