संस्कृत-शब्दकोशः

वव वंशक

वंश

वाचस्पत्यम्

वश ||‍ पुंन० वश—भावे अप्, कर्त्तरि अच् वा । १ आयत्तत्वे २ प्रभुत्वे च आयत्ते त्रि० शब्दर० ।


वाचस्पत्यम्

वश ||‍ स्पृहायाम् अदा० पर० सक० सेट । वष्टि उष्टः उशन्ति । अवट् अवाशीत् अवशीत् उवाश ऊशतुः ।


शब्दकल्पद्रुमः

वशं || क्ली (वश + “वशिरण्योरुपसंख्यानम् ।” ३ । ३ । ५८ । इत्यस्य वार्त्तिकोक्त्या अप् ।)
इच्छा । प्रभुत्वम् । आयत्तता । इति शब्द- रत्नावली ॥ (यथा, महाभारते । १२ । १३४ । ७ । “वशे बलवतां धर्म्मः सुखं भोगवतामिव ॥”)


शब्दकल्पद्रुमः

वशः || त्रि (वष्टीति । वश + अच् ।)
आयत्तः । इति शब्दरत्नावली ॥ (यथा, कथासरित्सागरे । ८ । १७ । “गुणाढ्योऽपि तदाकर्ण्य सद्यः खेदवशो- ऽभवत् ॥”)


शब्दकल्पद्रुमः

वशः || पुं, (वश + भावे अप् ।)
इच्छा । इति संकीर्णवर्गे अमरः ॥ (उश्यते इष्यते इति । वश + कर्म्मणि अप् ।)
वेश्यागृहम् । आय- त्तता । प्रभुत्वम् । इति त्रिकाण्डशेषः ॥ जन्म । इति हेमचन्द्रः ।


शब्दकल्पद्रुमः

वश || लु स्पृहि । इति कविकल्पद्रुमः ॥ (अदा०- पर०-सक०-सेट् ।)
लु, वष्टि धनं लोकः । इति दुर्गादासः ॥


वाचस्पत्यम्

वंश ||‍ पु० वमति उद्गिरति वम—श तस्य नेत्त्वम् । १ पुत्रपौत्रा- द्यपत्यवर्गे २ तृणजातिभेदे (वाँश) अमरः । ||‍“वंशः सरो हिमः स्वादुः कषायो वस्तिशोधनः । छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् । तत्करीरः कटुः पाकरसे रूक्षो गुरुः सरः । कषायः कफकृत् स्वादुर्विदाही वातपित्तलः । तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः । वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः” भावप्र० । ३ पृष्ठावयवे ४ वर्गे च मेदि० ५ इक्षौ ६ सालवृक्षे च राजनि० । ७ वाद्यभेदे पुंस्त्री० धरणिः स्त्रीत्वे गौरा० ङीष् “वंशीकलेन वडिशेन” इति वृन्दावनचम्पूः । तद्विवृतिर्यथा ||‍“तालेन राजते गीतं तालो वादित्रसम्भवः । गरीय- स्तेन वादित्रं तच्चतुर्विधमुच्यते । ततं शुषिरमानद्धं घनमित्थं चतुर्विधम् । ततं तन्त्रीगतं वाद्यं वंशाद्यं शुषिरं तथा । चर्मावनद्धमानद्धं घनं तालादिकं मतम्” । तत्र शुषिरं यथा “वंशोऽथ पारी मधुरी ||‍तित्तिरी शङ्खबाहुला । तोडही मुरली वुक्का शृङ्गिका स्वरनाभयः । शृङ्गं कापालिकं वंशश्चर्मवंशस्तथा परः । एते शुषिरभेदास्तु कथिताः पूर्वसूरिभिः । वर्त्तुलः सरलश्चैव प्रर्वदोषविवर्जितः । वैणवः खादिरो वापि रक्तचन्दनजोऽथ वा । श्रीखण्डजोऽथ सौवर्णो दन्ति- दन्तमयोऽपि वा । राजतस्ताम्रजो वापि लौहजः स्फाटिकोऽथ वा । कनिष्ठाङ्गुलितुल्येन गर्भरन्ध्रेण शोभितः । शिल्पविद्याप्रवीणेन वंशःकार्य्यो मनोहर । वंशेनैव मतःप्रीतिः मतङ्गमुनिनोदितम । ततोऽन्येऽपि तदाकारा वंशा एव प्रकीर्त्तिताः । तत्र त्यक्त्वा शिरो- देशादधोद्विमितमङ्गुलम् । फुत्काररन्ध्र कुर्वीत मित- मङ्गुलिपर्वणा । पञ्च ङ्गुलानि संत्यज्य ताररन्ध्राणि कारयेत् । कुर्य्यात्तथान्यरन्ध्राणि सप्तसंख्यानि कौशलात् । बदरीवीजतुल्यानि संत्यज्यार्द्धार्द्धमङ्गुलम् । प्रान्तयो- बन्धनं कार्य्यं स्वराद्यैर्नादहेतवे । सिक्थकेन कला देया तेन सुस्वरता भवेत् । पञ्चाङ्गुलोऽयं वंशः स्यादेकैका- ङ्गुलिवृद्धितः । षडङ्गुलानि नाम्ना स्यात् यावदष्टादशा- ङ्गुलम् । फुत्कारताररन्ध्रस्य यावदङ्गुलिमन्तरम् । तदेव नाम वंशस्य वांशिकैः परिकीर्त्त्यते । एकाङ्गुलोद्व्यङ्गुलश्च त्र्यङ्गुलश्चतुरङ्गुलः । अतितारतरत्वेन वांशिकैः समुपे- क्षितः । त्रयोदशाङ्गुलो वंशोऽपरः पञ्चदशाङ्गुलः । नि- न्दितो वंशतत्त्वज्ञैस्तथा सप्तदशाङ्गुलः । महानन्दस्तथा- नन्दो विजयोऽथ जयस्तथा । चत्वार उत्तमा वंशा मतङ्ग मुनिसम्मताः । दशाङ्गुलो महानन्दोनन्द एकादशा- ङ्गुलः । दृदशाङ्गुलमानस्तु विजयः परिकीर्त्तितः । चतुर्दशाङ्गुलमितो जय इत्यभिधीयते । ब्रह्मा रुद्रो रविर्विष्णुः क्रमादत्र व्यवस्थिताः । नैविड्यं प्रौढता- चापि मुस्वरत्वञ्च शीघ्रता । माधुर्य्यमिति पञ्चामी फुत्- कृतेषु गुणाः स्मृताः । शीत्कारबहुलः स्तब्धो विस्यरः स्फुटितो लघुः । अमधुरश्च विज्ञेयाः षड्दोषाः फुत्कृते क्रमात् । वृथा प्रयोगबाहुल्यमल्पता गीतवादने । एभिर्दोषैर्युतोऽतीव निन्दितो वांशिको मतः । स्थानका दिनयाभिज्ञोगमकाढ्यः स्फुटाक्षरः । शीघ्रहस्तः कलाभिज्ञो वांशिको रक्त उच्यते । प्रमुक्तिर्वद्धमुक्तिश्च युक्तिश्चेत्यङ्गुले गुणाः । सुस्थानत्वं सुस्वरत्वमङ्गुली- सारणक्रिया । समस्तगमकज्ञानं रागरागाङ्गवेदिता । क्रियाभाषाविभाषासु दक्षता गीतवादने । स्वस्थाने चापि दुःस्थाने नादनिर्माणकौशलम् । गातॄणां स्थान- दातृत्वं तद्दोषाच्छादनं तथा । वांशिकस्य गुणा एते मया संक्षिप्य दर्शिताः” सङ्गीतदा० ।


शब्दकल्पद्रुमः

वंशः || पुं, (वमति उद्गिरति पुरुषान् वन्यते इति वा । टु वम उद्गिरणे इति धातोर्यद्वा वन शब्दे इति धातोर्बाहुलकात् शः । यद्बा, वष्टि उश्यते इति वा । वशंकान्तौ + अच् घञ् वा । ततो नुम् ।)
पुत्त्रपौत्त्रादिः । तत्पर्य्यायः । सन्ततिः २ गोत्रम् ३ जननम् ४ कुलम् ५ अभिजनः ६ अन्वयः ७ अन्ववायः ८ सन्तानः ९ । इत्यमरः । २ । ७ । १ ॥ निघनम् १० जातिः ११ । इति जटाधरः ॥ कुलञ्च विद्यया जन्मना वा प्राणिनामेकलक्षणः सन्तानो वंश इति जयादित्यः । धनेन विद्यया वा ख्यातस्या- पत्यधारा वंश इति सुभूः । वमति उद्गिरति पूर्ब्बपुरुषान् वंशः नाम्नीति शः । इत्यमर- टीकायां भरतः ॥ * ॥
(यथा, रघुः । १ । २ । “क्व भूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥” पुत्त्रः । यथा, भागवते । ९ । २ । १७ । “नृपस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः ॥”)
तृणजातिविशेषः । वाँश इति भाषा । तत्- पर्य्यायः । त्वक्सारः २ कर्म्मारः ३ त्वचिसारः ४ तृणध्वजः ५ शतपर्व्वा ६ यवफलः ७ वेणुः ८ मस्करः ९ तेजनः १० । इत्यमरः । २ । ४ । ६० ॥ किष्कुपर्व्वा ११ । इति जटाधरः ॥ वम्भः १२ । इति शब्दरत्नावली ॥ तृणकेतुकः १३ कण्टालुः १४ कण्टकी १५ महाबलः १६ दृढ- ग्रन्थिः १७ दृढपत्रः १८ धनुर्द्रुमः १९ धानुष्यः २० दृढकाण्डः २१ ॥ (यथा, ऋतुसंहारे । १ । २५ । “ध्वनति पवनविद्धः पर्व्वतानां दरीषु स्फुटति पटुनिनादः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन क्षपयति मृगयूथं प्राप्तलग्नो दवाग्निः ॥”)
अस्य गुणाः । अम्लत्वम् । कषायत्वम् । किञ्चित्तिक्तत्वम् । शीतलत्वम् । मूत्रकृच्छ्र- प्रमेहार्शःपित्तदाहास्रनाशित्वञ्च । इति राज- निर्घण्टः ॥ * ॥
अपि च । “वंशः सरो हिमः स्वादुः कषायो वस्ति- शोधनः । छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् ॥ * ॥
तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः । कषायः कफकृत् स्वादुर्व्विदाही वातपित्तलः ॥ तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः । वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः ॥” इति भावप्रकाशः ॥ * ॥
(गृहोर्द्धकाष्ठम् । यथा, —
“वंशः पृष्ठास्थ्नि गेहोर्द्ध्वकाष्ठे वेणौ गणे कुले ॥” इति रघुटीकायां मल्लिनाथधृतकेशवः । ७ । ३९ ॥)
पृष्ठावयवः । पिठेर दोडा इति भाषा ॥ (यथा, भागवते । ११ । ८ । ३३ । “यदस्थिभिर्निर्म्मितवंशवंश्य- स्थूनं त्वचा रोमनखैः पिनद्धम् ॥”)
वर्गः । इति मेदिनी । शे, १३ ॥ (यथा, रघुः । ७ । ३९ । “उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ॥”)
वाद्यभाण्डविशेषः । इति धरणिः ॥ वाँशी इति भाषा ॥ (यथा, रघुः । २ । १२ । “स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चै- रुद्गीयमानं वनदेवताभिः ॥” विवृतिरस्य वंशीशब्दे द्रष्टव्या ॥)
इक्षुः । सालवृक्षः । इति राजनिर्घण्टः ॥ (प्राधागर्भ- सम्भूताप्सरोविशेषे, स्त्री । यथा, महाभारते । १ । ६५ । ४६ । “अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् । अनूपां सुभगां भासीमिति प्राधा व्यजायत ॥”)



Correction: