संस्कृत-शब्दकोशः

वंश वंशकफ

वंशक

वाचस्पत्यम्

वंशक ||‍ पु० वंश इव कायति कै—क । (सोमशाडा) १ इक्षुभेदे रत्नमा० २ मत्स्यभेदे (राउत) शब्दमा० । ३ अगुरुचन्दने न० हारा० ।


शब्दकल्पद्रुमः

वंशकं || क्ली (वंश इव कायतीति । कै + कः । अगुरु । इति हारावली । १०४ ॥


शब्दकल्पद्रुमः

वंशकः || क्ली (वंश इव प्रतिकृतिः । “इवे प्रति- कृतौ ।” ५ । ३ । ९६ । इति कन् ।)
मत्स्यविशेषः । इति शब्दमाला ॥ वाँशपातामाछ इतिभाषा ॥ इक्षुविशेषः । इति रत्नमाला ॥ वाँशाइ इति सामशाडा इति च भाषा ॥ अस्य गुणाः । “वंशकस्त्वनभिष्यन्दी लघुर्द्दोषत्रयापहः ॥” इति राजवल्लभः ॥ (यथा, सुश्रुते । १ । ४५ । “पौण्ड्रको भीरुकश्चैव वंशकः शतपोरकः ॥” “अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तया । आभ्यां तुल्यगुणः किञ्चित् सक्षारो वंशको मतः ॥”)
(ह्रस्वो वंशः । “संज्ञायां कन् ।” ५ । ३ । ८७ । इति कन् । क्षुद्रवशः । इति सिद्धान्त- कौमुदी ॥)



Correction: