वाचस्पत्यम्
वसन्तक || पु० वसन्ते कायति कै—क । श्योनाकवृक्षे शब्दमा०
शब्दकल्पद्रुमः
वसन्तकः || पुं, (वसन्त + संज्ञायां कन् ।)
श्योनाक- प्रभेदः । इति राजनिर्घण्टः ॥ (रुमण्वतो नर्म्म- सूहृदः पुत्त्रः । यथा, कथासरित्सागरे । ९ । ४४ । “सुप्रतीकस्य पुत्त्रश्च रुमण्वानित्यजायत । योऽस्य नर्म्मसुहृत्तस्य पुत्त्रोऽजनि वसन्तकः ॥”)