संस्कृत-शब्दकोशः

वसना वसन्तक

वसन्त

वाचस्पत्यम्

वसन्त ||‍ पु० वस—झ । मधुमाधवात्मके ऋतुभेदे “मधुश्च माध- वश्च वासन्तिकावृतुः” यजु श्रुतिः । २ अतिसारे शब्दर० । ३ नाट्ये विदूषकोपाधौ । ४ रागभेदे च । “आन्दोलिता च देशाख्या लोला प्रथममञ्जरी । मन्दारी चेति रागिण्यो वसन्तस्य सदानुगाः” इत्युक्ता अस्य पञ्च रागिण्यः षट् इत्यन्ये रामिणीशब्दे दृश्याः । अस्य गानकालः । “श्रीपञ्चमी समारभ्य यावत् स्याच्छ- यनं हरेः । तावद्वसन्तरागस्य गानमुक्तं मनीषीभिः” सङ्गीतदा० । ४ तालविशेषे । “जयमङ्गलगन्धर्वमकरन्द- त्रिभङ्गमाः । रतितालो वसन्तश्च जगझम्पोऽथ गारुणिः” वसन्तताले कर्त्तव्यो नगणो मगणस्तथा ।” सङीतदा० ।


शब्दकल्पद्रुमः

वसन्तः || पुं, (वसन्त्यत्र मदनोत्सवा इति । वस + “तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दि- भ्यश्च ।” उणा० ३ । १२८ । इति झच् ।)
ऋतुविशेषः । स च चैत्रवैशाखमासद्बयात्मकः । यथा । मधुश्च माधवश्च वासन्तिकावृतुः । इति मलमासतत्त्वधृता श्रुतिः ॥ (फाल्गुनचैत्रात्मक- श्चेति केचित् । वसन्तः कुम्भमीनयोरितिप्रयोः- दर्शनात् ॥ * ॥
)
तत्पर्य्यायः ॥ पुष्पसमयः २ सुरभिः ३ । इत्यमरः ॥ मधुः ४ । इति शब्दरत्नावली ॥ माधवः ५ फल्गुः ६ । इति जटाधरः ॥ ऋतु- राजः ७ पुष्पमासः ८ पिकानन्दः ९ कान्तः १० कामसखः ११ ॥ तत्कालीनजलगुणाः । कषाय- त्वम् । मधुरत्वम् । रूक्षत्वञ्च । इति राज- निर्घण्टः ॥ (यथा, ऋतुसंहारे । ६ । २ । “द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियाः सकामाः पवनः सुगन्धिः । सुखाः प्रदोषा दिवसाश्च रम्या सर्व्वं प्रिये ! चारुतरं वसन्ते ॥” यथा च । “हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति । प्रायेण प्रशमं याति स्वयमेव समीरणः । शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः ॥” इति पूर्ब्बखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥ “मुदितकोकिलकूजितकाननं मदनसूचककिंशुकशोभितम् । कुसुमसौरभरञ्जितभूधरं ॥ कलितमत्तमधुव्रतलालसम् ॥ मकरकेतनवाणसमाकुलं मुदितमेव समस्तमिदं जगत् । मलयमारुतकॢप्तगुणान्वितः कफकरो हि वसन्तऋतुर्भवेत् । कफजकोपविनाशनानलं वमनमावनरूक्षनिषेवणम् ॥ विविधः सुरतानन्दः संश्रमः कफवारणः । कटुक्षाराम्लकाः सेव्याः शोधनं कफसम्भवे ॥ व्यायामश्रमसंरोधखिन्नो विश्रान्तमानसः । एवं क्रियासमापन्नो नरः शीघ्रं सुखी भवेत् ॥” इति वसन्तोपचारः ॥ इहि हारीते प्रथमस्थाने चतुर्थेऽध्याये ॥ * ॥
“कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः । हत्वाग्निं कुरुते रोगानतस्तं त्वरया जयेत् ॥ तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः । व्यायामोद्वर्त्तनाघातैर्जित्वा श्लेष्माणमुल्वणम् ॥ स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः । पुराणयवगोधूमक्षौरजाङ्गलशूल्यभुक् ॥ सहकाररसोन्मिश्रानास्वाद्य प्रिययार्पितान् । प्रियास्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान् ॥ सौमनस्यकृतो हृद्यान् वयस्यैः सहितो पिबेत् । निर्गदानासवारिष्टसीधुमार्द्वीकमाधवान् ॥ शृङ्गवेराम्बु साराम्बु मध्वम्बु जलदाम्बु वा । दक्षिणानिलशीतेषु परितो जलवाहिषु ॥ अदृष्टनष्टसूर्य्येषु मणिकुट्टिमकान्तिषु । परपुष्टविघुष्टेषु कामकर्म्मान्तभूमिषु ॥ विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु । गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत् सुखी ॥ गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत् ॥” इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥ “हेमन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः । कायाग्निं वाधते रोगांस्ततः प्रकुरुते बहून् ॥ तस्माद्वसन्ते कर्म्माणि वमनादीनि कारयेत् । गुर्व्वम्लस्निग्धमधुरं दिवास्वप्नञ्च वर्ज्जयेत् ॥ व्यायामोद्वर्त्तनं धूमं कवडग्रहमज्जनम् ॥ सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः ॥ शारभं शशमैणेयं मांसं लावकपिञ्जलम् । भक्षयेन्निगद सीधुं पिबेन्माध्वीकमेव वा ॥ वसन्तेऽनुभवेत् स्त्रीणां काननानाञ्च यौवनम् ॥” इति चरके सूत्रस्थाने षष्ठेऽध्याये ॥ “मधुमाधवौ वसन्तः । फाल्गुनचैत्रौ वसन्तः । ता एवौषधयः कालपरिणामात् परिणतवीर्य्या बलवत्यो हेमन्ते भवन्त्वापश्च प्रसन्नाः स्निग्धा अत्यर्थं गुर्व्वास्ता उपयुज्यमाना मन्दकिरण- त्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहि- नामविदग्धाः स्नेहाच्छैत्यात् गौरवादुपलेपाच्च श्लेष्मणः सञ्चयमापादयन्ति स सञ्चयो वसन्ते- ऽर्करश्मिप्रविलापित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीन् जनयति ।” “पूर्ब्बाह्णे वसन्तस्य लिङ्गम् ।” “दिशो वसन्ते विमलाः काननैरुपशोभिताः । किंशुकाम्भोजवकुलचूताशोकादिपुष्पितैः ॥ कोकिलाषट्पदगणैरुपगीता मनोहराः । दक्षिणानिलसंवीताः सुमूखाः पल्वलोज्ज्वलाः ॥” इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥ * ॥
)
अस्याधिष्ठातृदेवतोत्पत्तिर्यथा, — मन्मथ उवाच । “करिष्येऽहं तव विभो वचनाद्धरमोहनम् । किन्तु योषिन्महास्त्रं मे ततः कान्तां भवान् सृज ॥ मया संमोहिते शम्भौ यया तस्यानुमोहनम् । कार्य्यं मनोरमां कामां तां निदेशय लोकभृत् ॥ तामहं नहि पश्यामि यया तस्यानुमोहनम् । कर्त्तव्यमधुना धातस्तत्रोपायं ततः कुरु ॥ मार्कण्डेय उवाच । एवंवादिनि कन्दर्पे धाता लोकपितामहः । कया संमोहनीयोऽयमिति चिन्तां जगाम ह ॥ चिन्ताविष्टस्य तस्याथ निःश्वासो यो विनिः- सृतः । तस्माद्वसन्तः संजातः पुष्पव्रातविभूषितः ॥ चूताङ्कुरांस्तत्कलिकां विभ्रद्भ्रमरसंहतिम् । किंशुकान् सारसा रेजे प्रफुल्ल इव पादपः ॥ शोणराजीवसङ्काशः फुल्लतामरसेक्षणः । सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः ॥ शङ्खवच्छ्रवणावर्त्तः श्यामकुञ्चितमूर्द्धजः । सन्ध्यांशुमालिसदृशः कुण्डलद्बयमण्डितः ॥ प्रमत्तवारणगतिर्विस्तीर्णहृदयस्थलः । पीनस्थूलायतभुजः कठोरकरयुग्मकः ॥ सुवृत्तोरुकटीजङ्घः कम्बुग्रीवोन्नतांसकः । गूढजत्रुः पीनवक्षः संपूर्णः सर्व्वलक्षणैः ॥ तादृशेऽथ समुत्पन्ने सम्पूर्णे कुसुमाकरे । ववौ वायुः ससुरभिः पादपा अपि पुष्पिताः ॥ पिकाश्च नेदुः सततं पञ्चमं मधुरस्वराः । प्रफुल्लपद्मा अभवन् सरस्यः स्वच्छपुष्कराः ॥” इति कालिकापुराणे ४ अध्यायः ॥ * ॥
हरमोहनकाले अस्य कर्म्माणि यथा, —
“मधुश्च कुरुते कर्म्म यद्यत्तस्य विमोहने । तत् शृणुष्व महाभाग नित्यं तस्योचितं पुनः ॥ चम्पकान् केशरानाम्रान् करुणान् पाटलां- स्तथा । नागकेशरपुन्नागान् किंशुकान् केतकान् वकान् ॥ माधवीमल्लिकापर्णसारान् कुरुवकांस्तथा । उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ॥ सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः । सुगन्धि कृतवान् यत्नात् अतीव शङ्कराश्रमम् ॥ लताः सर्व्वाः सुमनसो नूतनाङ्कुरसञ्चयाः । वृक्षान् रुचिरभावेन वेष्टयन्ति स्म तत्र च ॥ तान् वृक्षांश्चारुपुष्पौघांस्तैः सुगन्धिसमीरणैः । दृष्ट्वा कामवशं यातो न तत्र मुनिरप्युत ॥ तद्गणा अपि लोकेश नानाभावैः सुशोभनैः । रमन्ते स्म सुराः सिद्धा ये ये चापि तपोधनाः ॥ न तस्य पुनरस्माभिर्दृष्टं मोहस्य कारणम् । भावं न कुरुते कामं कायोत्थमपि शङ्करः ॥” इति कालिकापुराणे ७ अध्यायः ॥ * ॥
वसन्ते वर्णनीयानि यथा, —
“सुरभौ दोला कोकिलमारुतसूर्य्यगतितरु- दलोद्भिदाः । जातीतरपुष्पचयाम्रमञ्जरीभ्रमरझङ्काराः ॥” इति कविकल्पलतायां प्रथमस्तवकः ॥ * ॥
अतिसारः । इति शब्दरत्नावली ॥ षड्रागान्त- र्गतद्वितीयरागः । यथा, —
“रागाः षडेव तु प्रोक्ता रागिण्यस्त्रिंशदेव तु । भैरवोऽथ वसन्तश्च नटनारायणस्तथा ॥” इत्यादि ॥ तस्य पञ्चरागिण्यो यथा, —
“आन्दोलिता च देशाख्या लोला प्रथममञ्जरी । मन्दारी चेति रागिण्यो वसन्तस्य सदानुगाः ॥” अस्य ध्यानं यथा, —
“शिखण्डिवर्होच्चयबद्धचूडः पुष्णन् पिकं चूतलताङ्कुरेण । भ्रमन् मुदा वाममनोज्ञमूर्त्ति- र्मतङ्गमत्तः स वसन्तरागः ॥” अस्य गानसमयो यथा, —
“श्रीपञ्चम्याः समारभ्य यावत् स्याच्छयनं हरेः । तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः ॥” इति सङ्गीतदामोदरः ॥ कल्लिनाथमते अस्य षड्रागिण्यो यथा । आन्धुली १ गमकी २ पठमञ्जरी ३ गौडकरी ४ धामकली ५ देवशाखा ६ ॥ हनूमन्मते हिन्दोलरागपुत्त्रनामानोऽस्याष्टौ पुत्त्राः । किन्तु तेषां मध्ये विभासस्थाने हिन्दोल इति लिखि- तम् ॥ सोमेश्वरमते तस्य षड्रागिण्यो यथा । देशी १ देवगिरी २ वैराटी ३ टोडिका ४ ललिता ५ हिन्दोली ६ ॥ तन्मते अस्य रागस्य रागिणीसहितस्य वसन्तर्त्तुर्गानसमयः । इति सङ्गीतशास्त्रम् ॥ * ॥
तालविशेषः । यथा, —
“जयमङ्गलगन्धर्व्वमकरन्दत्रिभङ्गमाः । रतितालो वसन्तश्च जगज्झम्पोऽथ गारुणिः ॥” इत्यादि ॥ “वसन्तताले कर्त्तव्यो नगणो मगणस्तथा । जगजझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम् ॥” इति सङ्गीतदामोदरः ॥



Correction: