वाचस्पत्यम्
वसिष्ठ || पु० वरिष्ठ + पृषो० । ब्रह्मणः मानसपुत्रेषु सप्तर्षिषु मुनिभेदे भा० अनु० अन्याऽपि तन्निरुक्तिर्यथा “वरि- ष्ठोऽस्मि वसिष्ठोऽस्मि वसे वासगृहेष्वपि । वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्” ।
शब्दकल्पद्रुमः
वसिष्ठः || पुं, (वशिष्ठः । पृषोदरादित्वात् शस्य सः ।)
वशिष्ठमुनिः । इति द्विरूपकोषः ॥