वाचस्पत्यम्
वसु || न० वस—उ । १ धने २ रत्ने अमरः ३ वृद्ध्यौषधे ४ श्यामे मेदि० । ५ स्वर्णे विश्वः ६ जले च सि० कौ० । ७ वकवृक्षे ८ सूर्य्ये ९ वह्नौ १० रश्मौ ११ गणदेवताभेदे च पु० अमरः । “धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः” भा० आ० ६६ अ० । १२ अष्टसङ्ख्यायाञ्च १३ मधुरे १४ शुष्के च त्रि० हेमच० । १५ दीप्तौ १६ वृद्ध्यौषधौ च स्त्री शब्दच० । १७ वसुदेव- ताके धनिष्ठानक्षत्रे पु० ज्यो० त० । १८ चेदिराजाख्येदेवभेदे
शब्दकल्पद्रुमः
वसु || क्ली (वसत्यनेनेति । वस + “शॄस्वृस्निहीति ।” उणा० १ । ११ । इति उः ।)
रत्नम् । धनम् । इत्यमरः ॥ (यथा, रघुः । ८ । ३१ । “बलमार्त्तभयोपशान्तये विदुषां सत्कृतये बहुश्रुतम् । वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजनम् ॥”)
वृद्धौषधम् । श्यामम् । इति मेदिनी । से, ६ ॥ हाटकम् । इति विश्वः ॥ जलम् । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥
शब्दकल्पद्रुमः
वसुः || त्रि (वस् + उः ।)
मधुरम् । शुष्कम् । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
वसुः || पुं, (वसतीति । वस + उः ।)
वकवृक्षः । अनलः । रश्मिः । गणदेवताविशेषः । इत्यमरः ॥ स चाष्ट संख्यातः । यथा, —
“धरो ध्रुवश्च सोमश्च विष्णुश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ क्रमात् स्मृताः ॥” इति भरतः ॥ दक्षो द्वितीयजन्मनि षष्ठमन्वन्तरे असिक्र्यां पत्न्यां षष्टिकन्या जनयामास । ताः प्रजा- पतिभ्यो दत्तवान् । धर्म्माय दश । तासां नामानि । भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती वसुर्मुहूर्त्ता सङ्कल्पा । आसां मध्ये वसोरष्टौ वसवः पुत्त्रा यथा । द्रोणः प्राणः ध्रुवः अर्कः अग्निः दोषः वास्तुः विभावसुरिति । द्रोणस्य अभिमत्यां पत्न्यां हर्षशोकभयादयः पुत्त्राः । १ । प्राणस्य उर्ज्जस्वत्यां द्वौ पुत्त्रौ सह- स्रायुः पुरोजवश्च । २ । ध्रुवस्य धारण्यां पुरः पुत्त्रः । ३ । अर्कस्य वासनायां तर्षादयः पुत्त्राः । ४ । अग्नेर्वसोर्धारायां द्रविणकादयः पुत्त्राः । ५ । दोषस्य शर्व्वर्य्यां शिशुमारो हरेरंशः । ६ । वास्तोराङ्गिरस्यां विश्वकर्म्मा । विश्वकर्म्मणः पुत्त्रश्चाक्षुषो मनुरभूत् । विश्वे साध्या मनोः सुताः । ७ । विभावसोरुषायां त्रयः पुत्त्राः व्युष्टरोचिषातपनामानः । ८ । इति श्रीभागवत- मतम् ॥ * ॥
मतान्तरे अष्टौ वसवो यथा, — धरः १ ध्रुवः २ सोमः ३ सावित्रः ४ अनिलः ५ अनलः ६ प्रत्यूषः ७ प्रभासः ८ । इति महा- भारते दानधर्म्मः ॥ अपि च । “आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥ आपस्य पुत्त्रो वैतण्ड्यः श्रमः श्रान्तो ध्वनि- स्तथा । ध्रुवस्य पुत्त्रो भगवान् कालो लोकप्रकालनः ॥ सोमस्य भगवान् वर्च्चा वर्च्चस्वी येन जायते । धरस्य पुत्त्रो द्रविणो हुतो हव्यवहस्तथा ॥ मनोहरायाः शिरसः प्राणोऽथ रमणस्तथा । अनिलस्य शिवा भार्य्या तस्याः पुत्त्रः पुरोजवाः ॥ अविज्ञातगतिश्चैव द्वौ पुत्त्रावलिनस्य तु । अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत ॥ तस्याः शाखो विशाखश्चानैगमेयश्च पृष्टजाः । प्रत्यूषस्य विदुः पुत्त्रं ऋषिं नाम्ना च देवलम् ॥ द्वौ पुत्त्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ । बृहस्पतेश्च भगिनी वरस्त्री ब्रह्मचारिणी ॥ प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य च । विश्वकर्म्मा महाभागस्तस्यां जज्ञे प्रजापतिः ॥” इति वह्निपुराणे कश्यपीयप्रजासर्गनामाध्यायः कौर्म्मे १४ अध्यायश्च ॥ * ॥
(एते वशिष्ठस्य धेनुं नन्दिनीमपहृत्य तच्छापग्रस्ता पृथिव्यां शन्तनुपुत्त्रा आसन् । तेषु द्यौनामा वमुरेव कुरुवृद्धो भीष्मः । एतद्विवरणं यथा, देवीभाग- वते । २ । ३ । २४ — ४४ । “एतस्मिन् समये चाष्टौ वसवः स्त्रीसम- न्विताः । वशिष्ठस्याश्रमं प्राप्ता रममाणा यदृच्छया ॥ पृथ्वादीनां वसूनाञ्च मध्ये कोऽपि वसूत्तमः । द्यौर्नामा तस्य भार्य्याथ नन्दिनीं गां ददर्श ह ॥ दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा । द्यौस्तामाह वशिष्ठस्य गौरियं शृणु सुन्दरि ! ॥ दुग्धमस्याः पिबेद्यस्तु नारी वा पुरुषोऽथवा । अयुतायुर्भवेन्नूनं सदैवागतयौवनः । तच्छ्रुत्वा सुन्दरी प्राह मर्त्यलोकेऽस्ति मे सखी । उशीनरस्य राजर्षेः पुत्त्री परमशोभना ॥ तस्या हेतोर्महाभाग ! सवत्सां गां पय- स्विनीम् । आनयस्वाश्रमश्रेष्ठं नन्दिनीं कामदां शुभाम् ॥ यावदस्याः पयः पीत्वा सखी मम सदैव हि । मानुषेषु भवेदेका जरारोगविवर्ज्जिता ॥ तच्छ्रुत्वा वचनं तस्या द्यौर्जहार च नन्दिनीम् । अवमत्य मुनिं दान्तं पृथ्वाद्यैः सहितोऽनघः ॥ हृतायामथ नन्दिन्यां वशिष्ठस्तु महातपाः । आजगामाश्रमपदं फलान्यादाय सत्वरः ॥ नापश्यत् स यदा धेनुं सवत्सां स्वाश्रमे मुनिः । मृगयामास तेजस्वी गह्वरेषु वनेष्वपि ॥ नासादिता यदा धेनुश्चुकोपातिशयं मुनिः । वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् ॥ वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै । तस्मात् सर्व्वे जनिष्यन्ति मानुषेषु न संशयः ॥ एवं शशाप धर्म्मात्मा वसूंस्तान् वारुणिः स्वयम् । श्रुत्वा विमनसः सर्व्वे प्रययुर्दुःखिताश्च ते ॥ शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः । प्रसादयन्तस्तमृषिं वसवः शरणं गताः ॥ मुनिस्तानाह धर्म्मात्मा वसून्दीनान् पुरः- स्थितान् । अनुसंवत्सरं सर्व्वे शापमोक्षमवाप्स्यथ ॥ येनेयं विहृता धेनुर्नन्दिनी मम वत्सला । तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति ॥ ते शप्ताः पथि गच्छन्तीं गङ्गां दृष्ट्वा सरिद्व- राम् । ऊचुस्तां प्रणताः सर्व्वे शप्तां चिन्तातुरां नदीम् ॥ भविष्यामो वयं देवि ! कथं देवाः सुधाशनाः । मानुषाणाञ्च जठरे चिन्तेयं महती हि नः ॥ तस्मात्त्वं मानुषी भूत्वा जनयास्मान् सरिद्वरे ! । शन्तनुर्नाम राजर्षिस्तस्य भार्य्या भवानधे ! ॥ जातान् जातान् जले चास्मान् निक्षिपस्व सुरापगे ! । एवं शापविनिर्मोक्षो भविता नात्र संशयः ॥ तथेत्युक्ताश्च ते सर्व्वे जग्मुर्लोकं स्वकं पुनः । गङ्गापि निर्गता देवी चिन्त्यमाना पुनः पुनः ॥”)
योक्त्रम् । राजा । इति मेदिनी । से, ६ ॥ धनाधिपः । इति विश्वः ॥ साधुः । इति शब्दरत्नावली ॥ पीतमुद्गः । वृक्षः । इति हेमचन्द्रः ॥ पुष्करिणी । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ शिवः । सूर्य्यः । इत्यनेकार्थकोषः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ८७ । “वसुप्रदो वासुदेवो वसुर्वसुमना हरिः ॥” “वसन्ति भूतान्यत्र एतेषु स्वयमपीति वसुः ।” इति तत्र शाङ्करभाष्यम् ॥)
कुलीनकायस्थस्य पद्धतिविशेषः । यथा शूद्राणां नामकरणे वसु- घोषादिपद्धतियुक्तनामत्वञ्च बोध्यम् । इत्युद्वाह- तत्त्वम् ॥ अष्टसंख्या । यथा, —
“युग्माग्निकृतभूतानि षण्मुन्योर्वसुरन्ध्रयोः ॥” इति तिथ्यादितत्त्वम् ॥ (वकुलः । बृहद्वोल सरीति च ख्यातः । अस्य पर्य्यायो यथा, —
“शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शब्दकल्पद्रुमः
वसुः || स्त्री (वस् + उः ।)
दीप्तिः । वृद्धौषधम् । इति शब्दरत्नावली ॥ (दक्षस्य कन्याविशेषः । सा तु धर्म्मस्य पत्नीनामन्यतमा । इति विष्णु- पुराणम् । १ । १५ । १०५ ॥)