वाचस्पत्यम्
वहित्र || न० वह—इत्र । १ पोते जलयाने त्रिका० । स्वार्थे क । अत्रैवार्थे ।
शब्दकल्पद्रुमः
वहित्रं || क्ली (वहति द्रव्याणीति । वह + “अशित्रा- दिभ्य इत्रोत्रौ ।” उणा० ४ । १७२ । इति इत्रः ।)
पोतः । तत्पर्य्यायः । वार्व्वटः २ । इति त्रिकाण्डशेषः ॥ (यथा, गीतगोविन्दे । १ । ५ । “प्रलयपयोधिजले धृतवानसि वेदं विहितवहित्रचरित्रमखेदम् ॥”)