संस्कृत-शब्दकोशः

वाग्देवी वाग्य

वाग्मिन्

वाचस्पत्यम्

वाग्मिन् ||‍ त्रि० वाच् + अस्त्यर्थे ग्मिमि चस्य कः तस्य लोपः । १ प्रशस्तवाक्यवक्तरि अमरः । २ वृहस्पतौ पु० मेदि० । ४ विष्णौ पु० विष्णुस० ।


शब्दकल्पद्रुमः

वाग्मी || [न्] त्रि, (प्रशस्ता वागस्त्यस्येति । “वाचो ग्मिनिः ।” ५ । २ । १२४ । इति ग्मिनिः ।)
वक्ता । इत्यमरः ॥ (यथा, काम- न्दकीयनीतिसारे । ४ । १५ । “वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी ॥”)
पटुः । इति मेदिनी । ने, १३० ॥


शब्दकल्पद्रुमः

वाग्मी || [न्] पुं, (प्रशस्ता वागस्त्यस्येति । वाच् + ग्मिनिः ।)
सुराचार्य्यः । इति मेदिनी । ने, १३० ॥ (पुरुवंशीयमनस्योः पुत्त्रविशेषः । यथा, महा- भारते । १ । ९४ । ७ । “शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः । मनस्योरभवन् पुत्त्राः शूराः सर्व्वे महारथाः ॥”)



Correction: