वाचस्पत्यम्
वाणिनी || स्त्री वल—णिनि ङीप् । १ नर्त्तक्यां २ छेके ३ मत्त- स्त्रियाम् हेमच० । वाण + अस्त्यर्थे इनि । ४ शरयुते त्रि० ।
शब्दकल्पद्रुमः
वा(बा)णिनी || स्त्री (वण शब्दे + णिनिः । ङीप् ।)
नर्त्तकी । छेकः । मत्तस्त्री । इति हेमचन्द्रः ॥ (यथा, रघुः । ६ । ७५ । “यस्मिन् महीं शासति वाणिनीनां निद्रां विहारार्द्धपथे गतानाम् । वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥” * ॥
षोडशाक्षरच्छन्दोविशेषः । तल्लक्षणं यथा, —
“नजभजरैर्यदा भवति वाणिनी गयुक्तैः ॥”)