वाणिनी
वात
वाणी
शब्दकल्पद्रुमः
वा(बा)णी || स्त्री (वाणि + वा ङीष् ।)
सरस्वती । इत्यमरः । १ । ६ । १ ॥ वचनम् । (यथा, मार्क- ण्डेये । ४१ । ४ । “चक्षुःपूतं न्यसेत् पादं वस्त्रपूतं पिबेज्जलम् । सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ॥”)
वपनम् । इति शब्दरत्नावली ॥