वाचस्पत्यम्
वात || गतौ सेवायां सुखीकरणे च सक० अद० च० उभ० सेट् । वातयति ते अववातत् त ।
वाचस्पत्यम्
वात || पु० वा—क्त । स्पर्शमात्रविशेषगुणके भूतभेदे १ पवने अमरः । अनिलशब्दे १६४ पृ० दृश्यम् । २ देहस्थे धातुभेदे च । ६ गन्तरि त्रि० । जारे ५ धृष्टनायके च “प्रभातवाता हतीति” भट्टिः । ६ वातजन्ये रोगभेदे भावप्र० यथा ||“कषायकटुतिक्तकप्रमितरूक्षलघ्वन्नतः पुरःपवनजा- गरप्रतरणाभिघातश्रमैः । हिमादनशनात् तथा नि- क्षुवनाच्च धातुक्षयात् मलादिरयधारणात् मदनशोक चिन्ताभयैः । अतिक्षतजमोक्षणात् गदकृतातिमांस क्षयादतीव वमनान् नृणामतिविरेचनादामतः । पयोद- समये दिनक्षणदयोस्तृतीयांशयोर्जरामतिगतेऽशिते शिशिरसंज्ञकालेऽपि च । देहे स्रोतांसि रिक्तानि पूर- यित्वाऽनिलो वली । करोति विविधान् रोगान् सर्वाङ्गै- काङ्गसंश्रयान्” । प्रमितञ्चात्र वैपरीत्ये प्रापसर्गस्तेन अपरिमितमित्यर्थः । प्रकर्षेण मितमत्यल्पं वा लघ्वन्नम् अतिपुराणं शाल्यादि । कतिचिदन्नानि नवान्यषि वातलानि यत आह गुणरत्नमालायाम् “नीवार- स्त्रिपुटः सतीनचणकः श्यामाकमुद्गाढकीनिष्पावाश्च मकुष्ठकश्च वरठामङ्गल्यकः कीद्रवः” । एते वातकरा इति शेषः । नीवारः प्रसाधिका (चीना) इति लोके । त्रि- पुटः (खसारी) । सतीनः कलायः । निष्पावो राज- माषः । (वरवटी) इति लोके । मकुष्टकः (माढा) इति लोके । वरठा वरटिका (वररै) इति लोके । मङ्गल्यकः (मसूरी) इति लोके । पुरःपवनः प्राग्वातः, आ- मतः आमेन मार्गावरणात् । यत उक्तम् वायोर्द्धा तुक्षयात् कोपो मार्गस्यावरणेन चेति” । पयोदसमये वर्षासु । जरामतिगतेऽशिते भुक्तेऽजीर्णताङ्गते । देहे स्रोतांसीत्यादिना संप्राप्तिरुक्ता । कषायादिभि- र्हेतुभिर्वर्षादौ समये हेतुभते बली अनिलः प्रवृद्धो वायुः करोति विविधान् रोगान् । ते रोगाः कथ्यन्ते “शिरो- ग्रहोऽल्पकेशत्वं जृम्भात्यर्थं हनुग्रहः । जिह्वास्तम्भो गद्गदत्वं मिन्मिनत्वञ्च मूकता । वाचालता प्रलापश्च रसानामनभिज्ञता । बाधिर्य्यं “कर्णनादश्च स्पर्शाज्ञत्वं तथार्दितम् । मन्यास्तम्भोऽत्र वणितो बाहुशोषोपना- डकः । चर्विता चैव विक्षाची ऊर्द्धवात उदीरितः । आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रत्यष्ठीला । “तूणी च प्रतितूणी च वह्निवैषम्यमेव च । आटोपः पार्श्वशूलञ्च त्रिकशूलं तथैव च । मुहुश्च मूत्रलं मूत्रनिग्रहो मल- गाढता । पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परम् । कलापखञ्जता चापि खञ्जता पङ्गुता तथा । क्रोष्ठुशीर्षक खल्यौ च वातकण्टक एव च । पादहर्षो पाददाह आक्षेपो दण्डकाभिधः । वातपित्तकृताक्षेपस्तथा दण्डा पतानकः । अभिघातकृताक्षेप आयामो द्विविधः स्मृतः । आन्तरश्च तथा याह्यो धनुर्वातश्च कुब्जकः । अपतन्त्रोपतानश्च पक्षाघातोऽखिलाङ्गकः । कम्पस्तम्भो व्यथातीदो भेदश्च स्फुरणं तथा । रौक्ष्यं कार्श्यञ्च कार्ष्ण्यञ्च सैत्यं लोम्नाञ्च हर्षणम् । अङ्गमर्द्दोऽङ्ग- विभ्रंशः सिरासङ्कीच एव च । अङ्गशेषाश्च भीरुत्वं मोहश्चञ्चलचित्तता । निद्रानाशः स्वेदनाशो वलहानि- स्तथैव च । शुक्रक्षयो रजोनाशो गर्भनाशः परि- श्रमः । एत एवाशीतिसंख्यारोगा योगेन रूढितः । बातव्याधीतिनामानो मुनिमिः परिकीर्त्तिताः” । एत एव शिरोग्रहादय एव । योगेन वातेन वाताद्व्या- धिर्वातव्याधिरिति निरुक्त्या तदा वातज्वरादिष्वपि प्रसङ्गः स्यादत आह रूढितः प्रसिद्धितः शिरोग्रहा- दयोऽशीतिरेव वातव्याधिसंज्ञाः प्रसिद्धा न तु वातज्वरा- दयः” । तल्लक्षणादिकं तत्र दृश्यम् ।
शब्दकल्पद्रुमः
वात || त् क गतिसेषयोः । सुखे । इति कविकल्प- द्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
अववातत् । त्रयोऽर्थाः । रमानाथस्तु गति- सुखसेवयोरिति मत्वा गतौ सुखं गतिसुखम् । वातयति पान्थं वातः गच्छन्तं सुखयतीत्यर्थः । इत्याह । सुखसेवनयोरिति जौमराः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वातः || पुं, (वातीति । वा + क्तः ।)
पञ्च- भूतान्तर्मतचतुर्थभूतः । वातास इति भाषा । तत्पर्य्यायः । गन्धवहः २ वायुः ३ पवमानः ४ महाबलः ५ पवनः ६ स्पर्शनः ७ गन्धवाहः ८ मरुत् ९ आशुगः १० श्वसनः ११ मातरिश्वा १२ नभस्वान् १३ मारुतः १४ अनिलः १५ समी- रणः १६ जगत्प्राणः १७ समीरः १८ सदागतिः १९ जीवनः २० पृषदश्वः २१ तरस्वी २२ प्रभ- ञ्जनः २३ प्रधावनः २४ अनवस्थानः २५ धूननः २६ मोटनः २७ खगः २८ । अस्य गुणाः ॥ स्वैरत्वम् । लघुत्वम् । शीतत्वम् । रूक्षत्वम् । सूक्ष्मत्वम् । संज्ञानकत्वम् । स्तोककारित्वञ्च । तस्य कोपकारणं यथा । माधुर्य्यान्नभक्षणम् ॥ साभ्रकालः । अपराह्णकालः । प्रत्यूषकालः ॥ अन्नजीर्णसमयश्च । इति राजनिर्घण्टः ॥ * ॥
रोगविशेषः । यथा । अथ वातव्याध्यधिकारः ॥ तत्र वातव्याधीनां सामान्यतो विप्रकृष्टनिदाना- न्याह । “कषायकटुतिक्तकप्रमितरूक्षलध्वन्नतः पुरःपवनजागरप्रतरणाभिघातश्रमैः । हिमादनशनात्तथा निधुवनाच्च धातु क्षयात् मलादिरपधारणात् मदनशोकचिन्ताभयैः ॥ अतिक्षतजमोक्षणात् गदकृतातिमांसक्षया- दतीव वमनान्नृणामतिविरेचनादामतः । पयोदसमये दिनक्षणदयोस्तृतीयांशयो- र्ज्जरामतिगतेऽशिते शिशिरसंज्ञकालेऽपि च ॥ देहे स्रोतांसि रिक्तानि पूरयित्वानिलो बली । करोति विविधान् रोगान् सर्व्वाङ्गैकाङ्गसंश्र- यान् ॥” प्रमितञ्चात्र वैपरीत्ये प्रोपसर्गस्तेन अपरिमित- मित्यर्थः । प्रकर्षेण मितमत्यल्पं वा लघ्वन्न- मतिपुराणं शाल्यादि । कतिचिदन्नानि नवा- न्यपि वातलानि । यत आह । गुणरत्नमाला- याम् । नीवारस्त्रिपुटः सतीनचणकश्यामाकमुद्गाढकी- निष्पावाश्च मकुष्टकश्च वरटा मङ्गल्यकः कोद्रवः ॥ एते वातकरा इति शेषः । नीवारः प्रसाधिका तीनी इति लोके । त्रिपुटः यसारी । सतीनः कलायः । निष्पावो राजमाषः । वोडा इति लोके । मकुष्टकः मोडः इति लोके । वरटा वरटिका वररै इति लोके । मङ्गल्यकः मसूरी इति लोके । पुरःपवनः प्राग्वातः । आमतः आमेन मार्गावरणात् । यत उक्तम् । वायोर्द्धातुक्षयात् कोपो मार्गस्यावरणेन चेति । पयोदसमये वर्षासु । जरामतिगतेऽशिते भुक्ते- ऽतीव जीर्णताङ्गते । देहे स्रोतांसीत्यादिना संप्राप्तिरुक्ता । कषायादिभिर्हेतुभिर्व्वर्षादौ समये हेतुभूते बली अनिलः प्रवृद्धो वायुः करोति विविधान् रोगान् । ते रोगाः कथ्यन्ते । “शिरोग्रहोऽल्पकेशत्वं जृम्भात्यर्थं हनुग्रहः । जिह्वास्तम्भो गद्गदत्वं मिन्मिनत्वञ्च मूकता ॥ वाचालता प्रलापश्च रसानामनभिज्ञता । वाधिर्य्यं कर्णनादश्च स्पर्शज्ञत्वं तथार्द्दितम् ॥ मन्यास्तम्भोऽत्र गणितो बाहुशोषोपबाहुकः । चर्व्विता चैव विश्वाची ऊर्द्ध्ववात उदीरितः ॥ आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रत्यष्ठीला । तूणी च प्रतितूणी च वह्निवैषम्यमेव च ॥ आटोपः पार्श्वशूलञ्च त्रिकशूलं तथैव च । मुहुश्च मूत्रलं मूत्रनिग्रहो मलगाढता । पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परः ॥ कलापखञ्जता चापि खञ्जता पङ्गुता तथा । क्रोष्टुशीषककल्यौ च वातकण्टक एव च ॥ पादहर्षः पाददाहः आक्षेपो दण्डकाभिधः । वातपित्तकृताक्षेपस्तथा दण्डापतानकः ॥ अभिघातकृताक्षेप आयामो द्विविधः स्मृतः । आन्तरश्च तथा बाह्यौ धनुर्वातश्च कुब्जकः ॥ अपतन्त्रोपतानश्च पक्षाघातोऽखिलाङ्गकः । कम्पः स्तम्भो व्यथा तोदो भेदश्च स्फुरणं तथा ॥ रौक्षं काश्यञ्च कार्ष्ण्यञ्च शैत्यं लोम्नाञ्च हर्ष- णम् । अङ्गमर्द्वोऽङ्गविभ्रंशः शिरासङ्कोच एव च ॥ अङ्गशोषश्च भीरुत्वं मोहश्चञ्चलचित्तता ॥ निद्रानाशः स्वेदनाशो बलहानिस्तथैव च । शुक्रक्षयो रजोनाशो गर्भनाशः परिश्रमः ॥ एत एवाशीतिसंख्या रोगा योगेन रूढितः । वातव्याधीति नामानो मुनिभिः परि- कीर्त्तिताः ॥” एत एव शिरोग्रहादय एव । योगेन वातेन । वाताद्वा व्याधिर्व्वातव्याधिरिति निरुक्त्या तदा वातज्वरादिष्वपि प्रसङ्गः स्यादत आह रूढितः प्रसिद्धितः । शिरोग्रहादयोऽशीतिरेव वातव्याधिसंज्ञा प्रसिद्धा न तु वातज्वरादयः ॥ * ॥
अथ वातव्याधिनां सामान्यचिकित्सामाह । “मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रा गुरुरविकरवस्तिस्वेदसन्तर्पणानि । दहनजलदसेकाभ्यङ्गसंमर्द्दनानि प्रकुपितपवमानं शान्तमेतानि कुर्य्युः ॥” इति भावप्रकाशः ॥ * ॥
अपि च । “बलपुष्टिकराण्येव वायुबीजं निशामय । भोजनानन्तरं सद्यो गमनं धावनं तथा ॥ छेदनं वह्नितापश्च शश्वद्भ्रमणमैथुनम् । वृद्धस्त्रीगमनञ्चैव मनःसन्ताप एव च ॥ अतिरूक्षमनाहारं युद्धं कलह एव च । कटुवाक्यं भयं शोकः केवलं वायुकारणम् ॥ आज्ञाख्यचक्रे तज्जन्म निशामय तदौषधम् ॥ पक्वरम्भाफलञ्चैव सवीजं शर्करोदकम् । नारिकेलोदकञ्चैव सद्यस्तक्रं सुमिष्टकम् ॥ माहिषन्दधि मिष्टञ्च केवलं वा सशर्करम् । सद्यःपर्य्युषितान्नञ्च सौवीरं शीतलोदकम् ॥ पक्वतैलविशेषश्च तिलतैलञ्च केवलम् । लाङ्गलीतालखर्ज्जूरमस्तमामलकीद्रवम् ॥ शीतलोष्णोदकस्नानं सुस्निग्धचन्दनद्रवम् । स्निग्धपद्मपत्रतल्पं सुस्निग्धव्यजनानिलम् ॥ एतत्ते कथितं वत्से सद्यो वातप्रणाशनम् । वायवस्त्रिविधाः पुंसां क्लेशसन्तापकामजाः ॥” इति श्रीब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥ * ॥
अन्यच्च । “विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम् । प्रसारण्युग्रगन्धा च बृहती कण्टकारिका ॥ वला चातिवला रास्ना श्वदंष्ट्रा च पुनर्नवा । एरण्डशारिवा पर्णीगुडत्तीकपिकच्छवः ॥ एषां दशपलिकान् भागान् क्वाथयेत् सलिले- ऽमले । तेन पादावशेषेण तिलं पात्रे विपाचयेत् ॥ आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् । शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् । * । द्रव्याणि यानि पेष्याणि तानि वक्ष्यामि तच्छृणु ॥ शतपुष्पा देवदारु शालपर्णी वचागुरुः । कुष्ठमांसी सैन्धवञ्च पलमेकं पुनर्नवा ॥ पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् । हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ॥ अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत् । गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी शिव ॥ अश्वानां वातभङ्गानां कुञ्जराणां नृणां तथा । तैलमेतत् प्रदातव्यं सर्व्ववातविकारिणाम् ॥” पुनश्च । “पलद्धयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम् । पञ्चप्रस्थं त्वारनालं तैलप्रस्थं पचेत्ततः । ग्रहगृह्यप्लवप्लीहसर्व्ववातविकारनुत् ॥” इति गारुडे १९८ अध्यायः ॥ (तथास्य गुणादयः । “वातस्तु रुक्षलघुचलबहुशीघ्रशीतपरुषविषदा- स्तस्य रौक्ष्याद्वातला रुक्षा पचिताल्पशरीराः प्रततरुक्षक्षामभिन्नसक्तजर्ज्जरस्वराः जागरू- काश्च लघुत्वाच्च लघुचपलगतिचेष्टाहारव्यव- हाराः चलत्वादनवस्थितसन्ध्यस्थिभ्रूहन्वोष्ठजिह्वा शिरः स्कन्धपाणिपादाः बहुत्वाद्बहुप्रलापकण्डरा सिराप्रतानाः शीघ्रत्वात् शीघ्रसमारम्भक्षोभ- विकाराः शीघ्रोत्त्रासरागविरागाः श्रुत- ग्राहिणोऽल्पस्मृतयश्च शैत्यात् शीतासहिष्णवः प्रततशीतकोद्वेपकस्तम्भाः पारुष्यात् परुष- केशश्मश्रुरोमनखदशनवदनपाणिपादाङ्गा वैष- द्यात् स्फुटिताङ्गावयवाः सततसन्धिशब्दगामिनः त एवं गुणयोगात् वातलाः प्रायेणाल्पबला- श्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाधन्याश्च ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥ अथास्य वृद्धिक्षयलक्षणं यथा । “तत्र वातवृद्धौ त्वक् पारुष्यं कार्श्यं कार्ष्ण गात्रस्फुरणमुष्णकामिता निद्रानाशोऽल्पबलत्वं गाढवर्च्चस्त्वञ्च ।” “तत्र वातक्षये मन्दचेष्टताल्पवाक्त्वमल्पहर्षो मूढसंज्ञा च ।” इति सुश्रुते सूत्रस्थाने पञ्च- दशेऽध्याये ॥ * ॥
स्थानविशेषेऽवस्थितस्यास्य चिकित्सा यथा, —
“विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः । आमाशयस्थे शुद्धस्य यथा दोषहरी क्रिया ॥ आमाशयगते वाते छर्द्दिताय यथाक्रमम् । देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ॥” “पक्वाशयगते वाते हितं स्ने हविरेचनम् । वस्तयः शोघनीयाश्च प्राशाश्च लवणोत्तराः ॥” स्ने हलवणम् । “स्नुहीलवणवार्त्ताकुस्नेहान् छन्ने घटे दहेत् । गोमयैः स्ने हलवणं तत्परं वातनाशनम् ॥ कार्य्यो वस्तिगते चापि विधिर्वस्तिविशोधाः । त्वङ्मांसासृक्शिरा प्राप्ते कुर्य्यार्च्चासृग् विमोक्षणम् ॥ स्नेहोपनाहाग्निकर्म्मबन्धनोन्मर्द्दनानि च । स्नायुसन्ध्यस्थि संप्राप्ते कुर्य्याद्वाते विचक्षणः ॥ स्वेदाभ्यङ्गावगाहांश्च हृद्यञ्चान्नन्त्वगाश्रिते । शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ॥ विरेको मांसमेदःस्थे निरूहाः शमनानि च । बाह्याभ्यन्तरतः स्ने हैरस्थिमज्जगतं जयेत् ॥ हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् । विवद्धमार्गं शुक्रन्तु दृष्ट्वा दद्याद्बिरेचनम् ॥ गर्भे शुष्के तु वातेन बालानाञ्चापि शुष्यताम् । सितामधुककाश्मर्य्यैर्हितमुत्थापने पयः ॥” इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारः ॥)