संस्कृत-शब्दकोशः

वात्स्यायन वादक

वाद

वाचस्पत्यम्

वाद ||‍ पुंस्त्री वद—घञ् । १ तत्त्वबुभुत्सया कथने “प्रमाणतर्कसाध- नोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रति- पक्षपरिप्रहो वादः इति २ तौतमोक्ते विचारात्मके वाक्यभेदे । “वादः प्रवदतामहम्” गीता ।


शब्दकल्पद्रुमः

वादः || पुं, (वद् + घञ् ।)
यथार्थबोधेच्छो- र्वाक्यम् । यथा, —
“विजिगीषोः कथा जल्पो वादस्तत्त्वविवे- दिषोः ।” इति जटाधरः ॥ अस्य लक्षणं यथा । प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्ष- परिग्रहो वादः । इति गोतमसूत्रम् ॥ * ॥
अपि च । “सर्गाणामादिरन्तश्च मध्यञ्चैवाहमर्ज्जुन ! । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥” इति भगवद्गीतायाम् १० अध्यायः ॥ “प्रवदतां वादिनां सम्बन्धिन्यो वादजल्पवितण्डा- ख्यास्तिस्रः कथाः प्रसिद्धास्तासां मध्ये वादो- ऽहम् । यत्र द्वाभ्यामपि प्रमाणतर्कतश्च स्वपक्षः स्थाप्यते परपक्षश्छलजातिनिग्रहस्थानैर्दूष्यते स जल्पो नाम । यत्र त्वेकः स्वपक्षं स्थापयति अन्यस्तु छलजातिनिग्रहस्थानैस्तत् पक्षं दूषयति न तु स्वपक्षं स्थापयति सा वितण्डा नाम कथा । तत्र जल्पवितण्डे विजिगीषमाणयोर्वादिनोः शक्तिपरीक्षामात्रफले । वादस्तु वीतरागयोः शिष्याचार्य्ययोरन्ययोर्वा तत्त्वनिरूपणफलः । अतोऽसौ श्रेष्ठत्वान्मद्विभूतिरित्यर्थः ।” इति तट्टी- कायां श्रीधरस्वामी ॥ (“तत्र वादः । वादो नाम यः परस्परेण सह शास्त्रपूर्ब्बकं विगृह्य कथयति । स वादो द्विविधः संग्रहेण जल्पो वितण्डा च । तत्र पक्षाश्रितयोर्वचनं जल्पः । जल्पविपर्य्ययो वितण्डा ।” इति चरके विमान- स्थानेऽष्टमेऽध्याये ॥)



Correction: