वाचस्पत्यम्
वान || न० वन—घञ् । १ शुष्कफले अमरः । २ शुष्के त्रि० मेदि० । वनस्येदं तत् समूहो वा अण् । ३ वनसम्बन्धिनि त्रि० । ४ तत्- संघे न० । वे—भावकर्मादौ ल्युट् । ५ सीवनकर्मणि ६ कटे । वा—भावादौ ल्युट् । ७ गतौ मेदि० । ८ जल- प्लुतवातोर्मौ ९ सुरङ्गायां १० सौरभे हेमच० ११ गोक्षीरजे १२ तवक्षीरे राजनि० । १३ वर्त्तिकाखगे स्त्री जटा० ।
शब्दकल्पद्रुमः
वानं || क्ली (वा + ल्युट् ।)
स्यूतिकर्म्म । कटः । गतिः । इति मेदिनी । ने, २० ॥ जलसंप्लुत- वातोर्म्मिः । सुरुङ्गा । सौरभः । इति हेमचन्द्रः ॥ गोक्षीरजं तवक्षीरम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
वानं || त्रि ओ वै शोषणे + क्तः । ओदितश्चेति नत्वम् ।)
शुष्कफलम् । इत्यमरः ॥ शुष्कम् । इति मेदिनी । ने, २० ॥ (वनस्येदमिति । वन + अण् ।)
वनसम्बन्धी ॥