वाचस्पत्यम्
वामन || त्रि० वम—णिच्—ल्युट्—ल्मु वा । १ दक्षिणदिगयजे अमरः । २ अङ्कोदवृक्षे ४ वलिवञ्चनार्थे प्रादुर्भूते हरे- रवतारभेदे मेदि० तत्कथा हरिवं० २६१ अ० दृश्या । पाणिनिसूत्रस्य काशिकावृत्तिकारके ५ पण्डितभेदे च । ६ ह्रस्वे त्रि० अमरः स्त्रियां ङीप् । “वामतीं मूर्त्तिमाददे” ।
शब्दकल्पद्रुमः
वामनः || त्रि (वामयतीति । वम + णिच् + ल्युः ।)
अतिक्षुद्रः । तत्पर्य्यायः । न्यङ् २ नीचः ३ खर्व्वः ४ ह्रस्वः ५ । इत्यमरः ॥ अनुच्चः ६ अनायतः ७ । इति जटाधरः ॥ (यथा, नैषधे । २२ । ५७ । “विधिस्तुषारर्त्तुदिनानि कर्त्तं कर्त्तं विनिर्म्माति तदन्तभिन्नैः । ज्योत्स्नीर्न चेत् तत्प्रतिमा इमा वा कथं कथं तानि च वामनानि ॥”)
शब्दकल्पद्रुमः
वामनः || पुं, (वामयति वमति वा मदमिति । वम + णिच् + ल्युः ।)
दक्षिणदिग्गजः । (यथा, भागवते । ५ । २० । ३९ । “तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिल- जगद्गुरुणा विनिवेशिता ये द्विरदपतयः ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः ॥”)
ह्रस्वः । इत्य- मरः । २ । ६ । ४६ ॥ (यथा, रघौ । १९ । ५१ । “व्योमपश्चिमकलास्थितेन्दु वा पङ्कशेषमिव धर्म्मपल्वलम् । राज्ञि ! तत्कुलमभूत् क्षयातुरे वामनार्च्चिरिव दीपभाजनम् ॥” यथाच तत्रैव । १ । ३ । “प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः ॥” अङ्कोठवृक्षः । हरिः । इति मेदिनी । ने, १२९ ॥ (यथा, महाभारते । १३ । १४९ । ३० । “उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः ॥” शिवः । यथा, महाभारते । १३ । १७ । ७० । “वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ॥” अश्वभेदः । यथा, अश्ववैद्यके । ३ । १५३ । “एकेनाङ्गेन हीनेन भिन्नेन च विशेषतः । यमजं वाजिनं विन्द्याद्वामनं वामनाकृतिम् ॥” दनोः पुत्त्रभेदः । यथा, हरिवंशे । ३ । ८२ । “अयोमुखः शम्बरश्च कपिलो वामनस्तथा ॥” भुजङ्गभेदः । यथा, महाभारते । १ । ३५ । ६ । “कालियो मणिनागश्च नागश्चापूरणस्तथा । नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥” गरुडवंशीयः पक्षिविशेषः । यथा, महाभारते । ५ । १०१ । १० । “पङ्कजिद्वज्रनिष्कुम्भो वैनतेयोऽथ वामनः । वातवेगो दिशाचक्षुर्निमिषोऽनिमिषस्तथा ॥” हिरण्यगर्भस्य सुतभेदः । यथा, हरिवंशे २५३ । ६ । “गार्गः पृथुस्तथैवाग्र्यो जान्यो वामन एव च ॥” क्रौञ्चद्वीपस्थपर्व्वतविशेषः । यथा, महाभारते । ६ । १२ । १७ — १८ । “कौञ्चद्वीपे महाराज ! क्रौञ्चो नाम महा- गिरिः । क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥ अन्धकारात्परो राजन् ! मैनाकः पर्व्वतोत्तमः । मैनाकात्परतो राजन् ! गोविन्दो गिरि- रुत्तमः ॥” तीर्थभेदः । यथा, महाभारते । ३ । ८४ । १२२ । “ततस्तु वामनं गत्वा सर्व्वपापप्रमोचनम् ॥” महापुराणान्यतमः । यथा, देवीभागवते । १ । ३ । ७ । “अयुतं वामनाख्यञ्च वायव्यं षट् शतानिच । चतुर्व्विंशतिसंख्यातः सहस्राणि तु शौनक ! ॥”)
विष्णोः पञ्चमावतारः । तस्य प्रादुर्भावो यथा । श्रीसदाशिव उवाच । “प्रह्नादस्य सुतो यज्ञे विरोचन इतीरितः । तस्य पुत्त्रो महाबाहुर्बलिर्वैश्वानरप्रभः ॥ स तु धर्म्मविदां श्रेष्ठः सत्यशंसी जितेन्द्रियः । हरेः प्रियतमो भक्तो नित्यं धर्म्मरतः शुचिः ॥ स जित्वा सकलान् देवान् सेन्द्रांश्च समरुद्ग- णान् । त्रिलोकान् स्ववशे स्थाप्य राज्यं चक्रे महाबलः ॥ इन्द्रादित्रिदशास्तस्य किङ्कराः समुपस्थिताः । भ्रष्टराज्यं सुरपतिं दृष्ट्वा तस्य पितार्द्दितः ॥ कश्यपो भार्य्यया सार्द्धं तपस्तेपे हरिं प्रति । अदित्या सह धर्म्मात्मा पयोव्रतसमन्वितः ॥ अर्च्चयामास देवेशं पद्मनाभं जनार्द्दनम् । ततो वर्षसहस्राणि तेन संपूजितो हरिः ॥ तथैवाविरभूत्तस्य देव्या सह सनातनः । तं दृष्ट्वा जगतामीशं हर्षनिर्भरचेतसा ॥ पत्न्या सह नमस्कृत्य तुष्टाव च द्बिजोत्तमः ॥ कश्यप उवाच । नमो नमस्ते लक्ष्मीश ! सर्व्वज्ञ जगदीश्वर । सर्व्वात्मन् सर्व्वदेवेश ! सृष्टिसंहारकारक ॥ इत्यादिस्तुतिभिः सम्यक् स्तूयमानो महर्षिणा । प्राह गम्भीरया वाचा परितुष्टो जनार्द्दनः ॥ सन्तुष्टोऽस्मि द्विजश्रेष्ठ ! त्वया भक्त्या समर्च्चितः । वरं वृणीष्व भद्रं ते करोमि तव वाञ्छितम् ॥ ततः प्राह हृषीकेशं भार्य्यया सह कश्यपः । पुत्त्रत्वं मम देवेश संप्राप्य त्रिदशां हितम् ॥ कुरुष्व बलिना देव त्रैलोक्यं निर्ज्जितं बलात् । इन्द्रस्यावरजो भूत्वा उपेन्द्र इति नामतः ॥ येन केनात्ममार्गेण बलिं निर्ज्जित्य मायया । त्रैलोक्यं मम पुत्त्राय देहि शक्राय शाश्वतम् ॥ इत्युक्तस्तेन विप्रेण तथेत्याह जनार्द्दनः । संस्तूयमानस्त्रिदशैस्तत्रैवान्तरधीयत ॥ एतस्मिन्नन्तरे काले कश्यपस्य महात्मनः । अदित्या गर्भमापेदे भगवान् भूतभावनः ॥” इति पाद्मोत्तरखण्डे ४८ अध्यायः ॥ श्रीशिव उवाच । “अथ वर्षसहस्रान्ते सर्व्वलोकमहेश्वरम् । अदितिर्जनयामास वामनं विष्णुमच्युतम् ॥ श्रीवत्सकौस्तुभोरस्कं पूर्णेन्दुसदृशद्युतिम् । सुन्दरं पुण्डरीकाक्षं अतिखर्व्वतरं हरिम् ॥ वटुवेशधरं देवं सर्व्ववेदान्तगोचरम् । मेखलाजिनदण्डादिचिह्नेनाङ्कितमीश्वरम् ॥ तं दृष्ट्वा देवताः सर्व्वे शतक्रतुपुरोगमाः । स्तुत्व महर्षिभिः सार्द्धं नमश्चक्रुर्म्महौजसः ॥ ततः प्रसन्नो भगवान् प्रोवाच सुरसत्तमान् । किं कर्त्तव्यं मया वाद्य तद्ब्रवीत सुरोत्तमाः ॥ ततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम् । अस्मिन् काले बलेर्यज्ञं वर्त्तते मधुसूदन ॥ प्रथमं दानकालोऽयं तस्य दैत्यपतेः प्रभो । याचित्वा त्रिदिवं लोकं ततस्तं दातुमर्हसि ॥ इत्युक्तस्त्रिदशैः सर्व्वैराजगाम बलिं हरिः । यागदेशे समासीनमृषिभिः सार्द्धमक्षयैः ॥ अभ्यागतं वटुं दृष्ट्वा सहसोत्थाय दैत्यराट् । अभ्यागतं स्वयं विष्णुं महाहर्षसमन्वितः ॥ पूजयामास विधिना निवेश्य कुसुमासने । प्रणिपत्य नमस्कृत्य प्राह गद्गदया गिरा ॥ धन्योऽस्मि कृतकृत्योऽस्मि सफलं जीवितं मम । त्वामर्च्चयित्वा विप्रेन्द्र ! किं करोमि तव प्रियम् ॥ आगतोऽस्मि यदर्थं त्वं मामुद्दिश्य द्विजोत्तम । तत् प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर ॥ ततः प्रहृष्टमनसा तमुवाच महीपतिम् । शृणु राजेन्द्र ! वक्ष्यामि ममागमनकारणम् ॥ अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम । मम त्रिविक्रमं पादं महीं संदातुमर्हसि ॥ सर्व्वेषामेव दानानां भूमिदानमनुत्तमम् । यो ददाति महीं राजन् विप्रायाकिञ्चनाय वै ॥ अङ्गुष्ठमात्रमथवा स भवेत् पृथिवीपतिः । न भूमिदानसदृशं पवित्रमिह विद्यते ॥ तस्माद्भूमिं महीपाल प्रयच्छ त्रैपदं मम । एतदल्पमहीं दातुं मा विशङ्क महीपते ॥ जगत्त्रयप्रदानन्तत् मम भूप भविष्यति । ततः प्रहृष्टवदनस्तथेत्याह महीपतिः ॥ तस्मै महीप्रदानन्तु कर्त्तुं मेने विधानतः । तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः ॥ उशना अब्रवीद्बाक्यं मा राजन् दीयतां मही । एष विष्णुः परेशो यो देवैः संप्रार्थितो नृप ! ॥ वञ्चयित्वा महीं सर्व्वां ततः प्राप्तुमिहागतः । तस्मान्मही न दातव्या तस्मै राजन् महात्मने ॥ अन्यमर्थं प्रयच्छस्व वचनान्मम भूपते ! । ततः प्रहस्य राजासौ तं गुरुं प्राह धैर्य्यतः ॥ प्रीतये वासुदेवस्य पुण्यं सर्व्वं कृतं मया । अद्य धन्योऽस्म्यहं विष्णुः स्वयमेवागतो यदि ॥ तस्यार्पयामि राज्यं हि जीवितञ्च महन्मम । तस्मादस्मै प्रयच्छामि त्रीन् लोकानपि माचिरम् ॥ इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तितः । वाञ्छितां प्रददौ भूमिं वारिपूर्ब्बं विधानतः ॥ परिणीय नमस्कृत्य दत्त्वा वै दक्षिणां वसु । उवाच तं वटुं विप्रं प्रहर्षेणान्तरात्मना ॥ धन्योऽस्म्यनुगृहीतोऽस्मि तव दत्त्वा महीं द्बिज । यथेष्टं तव विप्रेन्द्र तद्गृहाण महीमिमाम् ॥ पञ्चाशत्कोटिविस्तीर्णां सकाननमहीधराम् । ससागराञ्च सद्वीपां सदेवासुरमानुषाम् ॥ पादेनैकेन पुरुषो विक्रम्य मधुसूदनः । उवाच तं दैत्यराजं किं करोमीति शाश्वतम् ॥ तत्र त्रैविक्रमं रूपमीश्वरस्य महौजसः । सम्मातुमपि देवानामृषीणाञ्च महात्मनाम् ॥ न वक्तुमपि शक्यं स्यात् ब्रह्मणः शङ्करस्य च । तत्पदं पृथिवीं सर्व्वामाक्रम्य गिरिजे शुभे ॥ अतिरिक्तं समभवत् शतयोजनमायतम् । दिव्यं चक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः ॥ तस्मै सन्दर्शयामास स्वकं रूपं जनार्द्दनः । तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बलिः ॥ प्रहर्षमतुलं लेभे सानन्दाश्रुपरिप्लुतः । दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ॥ प्राह गद्गदया वाचा प्रहर्षेणान्तरात्मना । धन्योऽस्मि कृतकृत्योऽस्मि त्वां दृष्ट्वा परमेश्वरम् ॥ लोकत्रयं ममैवैतत् गृहाण मघुसूदन । अथ सर्व्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम् ॥ ऊर्द्ध्वे प्रसारयामास ब्रह्मलोकान्तमच्युतः । सनक्षत्रग्रहोपेतं सर्व्वदेवसमावृतम् ॥ पादेनापरिपूर्णोऽभूदच्युतः स शुभानने । ततः पितामहो दृष्ट्वा चक्रपद्मादिचिह्नितम् ॥ श्रीपादं देवदेवस्य हर्षसंभ्रमचेतसा । धन्योऽस्मीति वदन् ब्रह्मा गृहीत्वा स्वं कम- ण्डलुम् ॥ भक्त्या प्रक्षालयामास तत्र संस्थितवारिणा । अक्षय्यमभवत्तोयं तस्य विष्णोः प्रभावतः ॥ तत्तीर्थं मेरुशिखरे प्रापतद्विमलं जलम् । जगतः पावनार्थाय चतुर्द्दिक्षु प्रवाहितम् ॥ सीता चालकनन्दा च वङ्क्षुर्भद्रा यथाक्रमात् ॥ प्रसङ्गादिदमाख्यातं गङ्गाजन्म ह्यनुत्तमम् ॥ ततो नारायणः श्रीमान् बलेर्दैत्यपतेः प्रभुः । रसातलं शुभं लोकं प्रददौ भक्तवत्सलः ॥ सर्व्वेषां दानवानाञ्च नागानां यादसाम्पतेः । राजानञ्च बलिञ्चक्रे यावदाहूतसंप्लवम् ॥ प्रतिगृह्य बलेर्लोकान् वटुवेशेन दैत्यहा । महेन्द्राय ददौ प्रीत्या काश्यपिर्व्विष्णुरव्ययः ॥ ततो देवाः सगन्धर्व्वा ऋषयश्च महौजसः । तुष्टुवुः स्तुतिभिर्दिव्यैः पूजयामासुरच्युतम् ॥ संक्षिप्य तन्महद्रूपं तेषां सन्दर्शनाय वै । संपूज्यमानस्त्रिदशैरन्तर्धानं ययौ हरिः ॥” इति पाद्मोत्तरखण्डे ४९ अध्यायः ॥ * ॥
तदवतारप्रकारान्तरं यथा, — नारद उवाच । “सांप्रतं भगवान् विष्णुस्त्रैलोक्याक्रमणं वपुः । करिष्यति जगत्स्वामी बलेर्बन्धनमीश्वरः ॥ तत् कथं पूर्ब्बकालेऽपि विभुरासीत् त्रिविक्रमः । कस्य वा बन्धनं विष्णुः कृतवांस्तच्च मे वद ॥ पुलस्त्य उवाच । श्रूयतां कथयिष्यामि योऽयं प्रोक्तस्त्रिविक्रमः । यस्मिन् काले सम्बभूव यञ्च वञ्चितवानसौ ॥ आसीत् धुन्धुरिति ख्यातः कश्यपस्यौरसः सुतः । दनुगर्भसमुद्भूतो महाबलपराक्रमः ॥ स समाराध्य वरदं ब्रह्माणं तपसासुरः । अवध्यत्वं सुरैः सर्व्वैः प्रार्थयत् स तु नारद ॥ तद्वरं तस्य च प्रादात् तपसा पङ्कजोद्भवः । परितुष्टः स च बली निर्ज्जगाम त्रिपिष्टपम् ॥ चतुर्थस्य कलेरादौ जित्वा देवान् सवासवान् । धुन्धुः शक्रत्वमकरोत् हिरण्यकशिपौ सति ॥ तस्मिन् काले स बलवान् हिरण्यकशिपुस्ततः । चचार मन्दरगिरौ दैत्यं धुन्धुं समाश्रितः ॥ ततोऽसुरा यथाकामं विहरन्ति त्रिपिष्टपे । ब्रह्मलोके च त्रिदशाः संस्थिता दुःखसंयुताः ॥ ततोऽमरान् ब्रह्मसदोनिवासिनः श्रुत्वा च धुन्धुर्दितिजानुवाच ह । गच्छाम दैत्या वयमग्रजस्य सदो विजेतुं त्रिदशान् सशक्रान् ॥ ते धुन्धुवाक्यन्तु निशम्य दैत्याः प्रोचुर्न नो विद्यति लोकपाल । गतिर्यया याम पितामहाजिरं सुदुर्गमोऽयं परतो हि मार्गः ॥ इतः सहस्रैर्ब्बहुयोजनाख्यै- र्ल्लोको महर्नाम महर्षिजुष्टः । येषां हि नासापवनोदितेन दह्यन्ति दैत्याः सहसेक्षितेन ॥ तेषां वचनमाकर्ण्य धुन्धुः प्रोवाच दानवान् । गन्तुकामः स सदनं ब्रह्मणो जेतुमीश्वरान् ॥ कथन्तु कर्म्मणा केन गम्यते दानवर्षभाः । कथं तत्र सहस्राक्षः संप्राप्तः सह दैवतैः ॥ ते धुन्धुना दानवेन्द्राः पृष्टाः प्रोचुर्वचोऽधिपम् । कर्म्म तन्न वयं विद्मः शुक्रस्तद्वेत्त्यसंशयम् ॥ दैत्यानां वचनं श्रुत्वा धुन्धुर्दैत्यपुरोहितम् । पप्रच्छ शुक्र किं कर्म्म कृत्वा ब्रह्मसदोगतिः ॥ ततोऽस्मै कथयामास दैत्याचार्य्यः कलिप्रियः । शक्रस्य चरितं श्रीमान् पुरा वृत्तरिपोः किल ॥ शक्रः शतन्तु पुण्यानां क्रतूनामजयत् पुरा । दैत्येन्द्र ! वाजिमेधानां तेन ब्रह्मसदो गतः ॥ तद्वाक्यं दानवपतिः श्रुत्वा शुक्रस्य वीर्य्यवान् । यष्टुं तुरगमेधानां चकार मतिमुत्तमाम् ॥ आमन्त्र्याहासुरगुरुं दानवांश्चाप्यनुत्तमान् । प्रोवाच यक्ष्येऽहं यज्ञैरश्वमेधैः सदक्षिणैः ॥ आहूयन्ताञ्च निधयश्चाज्ञाप्यन्ताञ्च गुह्यकाः । प्रयामो देविका यत्र गङ्गा प्राचीनवाहिनी ॥ सा हि पुण्या सरिच्छ्रेष्ठा सर्व्वसिद्धिकरी शिवा । जलं प्राचीनमासाद्य वाजिमेधान् यजामहे ॥ इत्थं सुरारिवचनं निशम्यासुरयाजकः । वाढमित्यब्रवीद्धृष्टो निधयः सन्दिदेश सः ॥ ततो धुन्धुर्देविकायाः प्राचीने पापनाशने । भार्गवेन्द्रेण शुक्रेण वाजिमेधाय दीक्षितः ॥ ततोऽग्निधूमेन मही सशैला व्याप्ता दिशः खं विदिशश्च पूर्णाः । तेनोग्रगन्धेन दिवस्पृशेन मरुद्ववौ ब्रह्मलोके महर्षे ॥ तं गन्धमाघ्राय सुरा विषण्णा जानन्त धुन्धुं हयमेधदीक्षितम् । ततः शरण्यं शरणं जनार्द्दनं जग्मुः सशक्रा जगतः परायणम् ॥ प्रणम्य वरदं देवं पद्मनाभं जनार्द्दनम् । प्रोचुः सर्व्वे सुरगणा भयगद्गदया गिरा ॥ भगवन् देवदेवेश ! चराचरपरायण ! विज्ञप्तिः श्रूयतां विष्णो सुराणामार्त्तिनाशन ! ॥ धुन्धुर्नाम्ना सुरपतिर्बलवान् बलवृंहितः । शुक्रस्य मतमास्थाय सोऽश्वमेधाय दीक्षितः ॥ शतं क्रतूनामिष्ट्वासौ ब्रह्मलोकं महासुरः । आरोढुमिच्छति बली विजेतुं त्रिदशानपि ॥ तस्मादकालहीनन्तु चिन्तयस्व जगद्गुरो । उपायं मखविध्वंसे भवामो येन निर्वृताः ॥ श्रुत्वा सुराणां वचनं भगवान्मधुसूदनः । दत्त्वाभयं महाबाहुः प्रेषयामास सोऽथ तान् ॥ विसृज्य देवताः सर्व्वा ज्ञात्वा जेतुं महासुरम् । वञ्चनाय मतिञ्चक्रे स धुन्धोरध्वरस्य वै ॥ ततः स कृत्वा भगवान् वामनं रूपमीश्वरः । देहं कृत्वा निरालम्बं काष्ठवद्देविकाजले ॥ क्षणान्मज्जंस्तथोन्मज्जन्मुक्तकेशो यदृच्छया । दृष्टोऽथ दैत्यपतिना दैत्यैश्चान्यैः सुरर्षिभिः ॥ ततः कर्म्म परित्यज्य यज्ञियं ब्राह्मणोत्तमाः । समुत्तारयितुं विप्रमद्रवन्त समाकुलाः ॥ सदस्या यजमानाश्च ऋत्विजश्च महौजसः । निमज्जमानमुद्धर्त्तुं सर्व्वे तं वामनं द्विजम् ॥ समुत्तार्य्य हसन्तस्ते पप्रच्छुः सर्व्व एव हि । किमर्थं पतितोऽसीह केन क्षिप्तोऽसि वा वद ॥ तेषामाकर्ण्य वचनं कम्पमानो मुहुर्मुहुः । प्राह धुन्धुपुरोगांस्तान् श्रूयतामत्र कारणम् ॥ ब्राह्मणो गुणवानासीत् प्रभास इति विश्रुतः । तस्य पुत्त्रद्वयं जातं मन्दप्रज्ञं सुदुःखितम् ॥ तस्य ज्येष्ठो मम भ्राता कनीयानवरस्त्वहम् । नेत्रभाल इति ख्यातो ज्येष्ठो भ्राता ततो- ऽसुराः ॥ मम नाम पिता चक्रे इति भासोऽतिकौतुकात् । ततः कालेन महता आवयोः स पिता मृतः ॥ तस्यौर्द्धदेहिकं कृत्वा गृहमावां समागतौ । ततो मयोक्तः स भ्राता विभजामो गृहं वयम् । तेनोक्तो नैव भवतो विद्यते भाग इत्यहम् ॥ कुब्जवामनखञ्जानां क्लीवानां श्वित्रिणामपि । उन्मत्तानां तथान्धानां धनभागो न विद्यते ॥ एवमुक्तो मया सोऽथ किमर्थं पैतृकाद्गृहम् । धनार्द्धभागमर्हामि नाहं न्यायेन केन वै ॥ इत्युक्तवति वाक्येऽसौ भ्राता मे कोपसंयुतः । समुत्क्षिप्याक्षिपन्नद्यामस्यां मामिति कारणात् ॥ ममास्यां निम्नगायान्तु मध्ये च पुरतो गतः । कालः संवत्सराख्यस्तु युष्माभिरिह चोद्धृतः । के भवन्तश्च संप्राप्ताः सस्नेहा बान्धवा इव ॥ ते वामनवचः श्रुत्वा भार्गवा द्विजसत्तमाः । प्रोचुर्दैत्यपतिं सर्व्वे वामनार्थकरं वचः ॥ इति द्विजानां वचनं श्रुत्वा दैत्यपतिर्व्वचः । प्राह द्विज ददामीति यावदिच्छसि वै धनम् ॥ तद्वाक्यं दानवपतेः श्रुत्वा देवोऽथ वामनः । प्राहासुरपतिं धुन्धुं स्वार्थसिद्धिकरं वचः ॥ सोदरेणापि हि भ्रात्रा ह्रियते यस्य सम्पदः । तस्याक्षमस्य यद्दत्तं किमन्यो न हरिष्यति ॥ मम प्रमाणमालोक्य मामकञ्च क्रमत्रयम् । संप्रयच्छस्व दैत्येन्द्र नाधिकं रक्षितुं क्षमः ॥ इत्येवमुक्ते वचने महात्मा विहस्य दैत्याधिपतिः सऋत्विक् । प्रादाद्द्विजेन्द्राय पदत्रयं तदा यदा स नान्यत् जगृहे च किञ्चन ॥ क्रमत्रये तोयमवेक्ष्य दत्तं महासुरेन्द्रेण विभुर्यशस्वी । चक्रे ततो लङ्घयितुं त्रिलोकीं त्रिविक्रमं रूपमनन्तशक्तिः ॥ कृत्वा तु रूपं दितिजांश्च हत्वा प्रणम्य चर्षीन् प्रथमक्रमेण । महीं महीध्रैः सहितां सहार्णवां जहार रत्नाकरपत्तनैर्युताम् ॥ भुवं सनाकं त्रिदशाधिवासं सोमार्कऋक्षैरभिमण्डितं नभः । देवो द्वितीयेन जगाम वेगात् क्रमेण देवप्रियलोकमीश्वरः ॥ क्रमं तृतीयं न यदास्य पूरितं तदातिकोपाद्दनुपुङ्गवस्य । पपात पृष्ठे भगवांस्त्रिविक्रमो मेरुप्रमाणेन तु विग्रहेण ॥ पतता वासुदेवेन दानवोपरि नारद ! । त्रिंशद्योजनसाहस्री भूमिर्भूता घटीकृता ॥ ततो दैत्यं समुत्पात्य तस्यां प्रक्षिप्य वेगतः । वर्षसिक्ताभिवृष्ट्या तां गर्भभूमिमपूरयत् ॥ ततः स्वर्गं सहस्राक्षो वासुदेवप्रसादतः । सुराश्च सर्व्वे त्रैलोक्यमवापुर्निरुपद्रवाः ॥ भगवानपि दैत्येन्द्रं प्रक्षिप्य सिकतार्णवे । कालिन्द्यां रूपमाधाय तत्रैवान्तरधीयत ॥” इति वामने ७५ अध्यायः ॥