शब्दकल्पद्रुमः
वार्त्ता || स्त्री (वृत्तिरस्यां अस्तीति । “प्रज्ञाश्रद्धा- र्च्चावृत्तिभ्यो णः ।” ५ । २ । १०१ । इति णः । ततष्टाप् ।)
दुर्गा । यथा, —
“पश्वादिपालनाद्देवी कृषिकर्म्मान्तकारणात् । वर्त्तनाद्धारणाद्वापि वार्त्ता सा एव गीयते ॥” इति देवीपुराणे ४५ अध्यायः ॥ वृत्तिः । जनश्रुतिः । इत्यमरः । १ । ६ । ६ ॥ उदन्तः । (यथा, मोहमुद्गरे । ८ । “यावद्वित्तोपार्ज्जनशक्तः तावन्निजपरिवारो रक्तः । तदनुच जरया जर्जरदेहे वार्त्तां कोऽपि न पृच्छति गेहे ॥”)
वातिङ्गणः । कृष्यादि । इति मेदिनी । ते, ५६ ॥ (यथा, मनौ । ९ । ३२६ । “वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वार्त्तायां नित्ययुक्तः स्यात् पशूनाञ्चैव रक्षणे ॥” वार्त्तेयं चतुर्विधा । यथा, भागवते । १० । २४ । २१ । “कृषिबाणिज्यगोरक्षाकुसीदं तुर्य्यमुच्यते । वार्त्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥”)