संस्कृत-शब्दकोशः

वार्ता वार्ताकु

वार्ताक

वाचस्पत्यम्

वार्त्ताक ||‍ पु० वार्त्तमारोग्यमाकयति गमयति अक—णिच- अण् । वार्त्ताकौ त्रिका० । भावप्र० स्त्रीत्वमस्योक्तं ङीप


शब्दकल्पद्रुमः

वार्त्ताकः || पुं, (वर्त्ततेऽनेनेति । वृत् + “वृतेर्वृद्धिश्च ।” उणा० ३ । ७९ । इति काकुः । “बाहु- लकात् उकारस्यात्त्वेत्त्वे वार्त्ताकवार्त्ताक्यौ ।” इत्युज्ज्वलदत्तोक्त्या सिद्धम् ।)
वार्त्ताकुः । इति त्रिकाण्डशेषः ॥ वार्त्तकपक्षी । इति भाव- प्रकाशः ॥



Correction: