संस्कृत-शब्दकोशः

वास वासकर्णी

वासक

वाचस्पत्यम्

वासक ||‍ पु० वास—ण्वुल् । स्वनामख्याते वृक्षे “येन तेन प्रकारेण वासकः कासनाशकः” इति वैद्यकम् “वासकः कासहृत् स्वर्य्यः कफपित्तास्रनाशनः । तिक्त- स्तवरको हृद्यो लघुः शीतस्तृडर्त्तिहृत । श्वासकाम ज्वरच्छर्दिमोहकुष्ठक्षयापहः” भावप्र० । २ गानाङ्गवि- शेषे यथा “मनोहरोऽथ कन्दर्पश्चारुनन्दन एव च । चत्वारो वासकाः प्रोक्ताः शङ्करेण स्वयं पुरा” । केषा- ञ्चिम्मते नामान्तरम् । “विनोदो वरदश्चैव नन्दः कुमुद एव च । चत्वारो वासकाः प्रोक्ता गीतवाद्य- विशारदैः” सङ्गीतदा० ।


शब्दकल्पद्रुमः

वासकः || पुं, (वासयतीति । वासि + ण्वुल् ।)
वृक्ष- विशेषः । वाकस इति भाषा । तत्पर्य्यायः । वैद्यमाता २ सिंही ३ वासिका ४ वृषः ५ अटरुषः ६ सिंहास्यः ७ वाजिदन्तकः ८ । इत्यमरः ॥ वाशा ९ वाशिका १० वृशः ११ अटरूषः १२ वाशकः १३ । इति तट्टीका ॥ वासा १४ वासः १५ वाजी १६ वैद्यसिंही १७ मातृसिंही १८ । इति शब्दरत्नावली ॥ वासका १९ सिंहपर्णी २० । इति जटाधरः ॥ सिंहिका २१ भिषङ्माता २२ वसादनी २३ सिंहमुखी २४ कण्ठीरवी २५ शितकर्णी २६ वाजिदन्ती २७ नासा २८ पञ्चमुखी २९ सिंहपत्री ३० मृगेन्द्राणी ३१ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । शीतत्वम् । काशरक्त- पित्तकामलाकफवैकल्यज्वरश्वासक्षयनाशित्वञ्च । तत्पुष्पगुणाः । कटुपाकित्वम् । तिक्तत्वम् । कास- क्षयहरत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वासको वासिका वासा भिषङ्माता च सिंहिका । सिंहास्यो वाजिदन्तः स्यादाटरुषोऽटरूषकः ॥ आटरूषो वृषो नाम्ना सिंहपर्णश्च स स्मृतः । वासको वासकृत् सर्य्यः कफपित्तास्रनाशनः ॥ तिक्तस्तुवरको हृद्यो लघुः शीतस्तृडर्त्तिहृत् । श्वासकासज्वरच्छर्द्दिमोहकुष्ठक्षयापहः ॥” इति भावप्रकाशः ॥ * ॥
गानाङ्गविशषः । यथा, —
“मनोहरोऽथ कन्दर्पश्चारुनन्दन एव च । चत्वारो वासकाः प्रोक्ताः शङ्करेण स्वयं पुरा ॥” केषाञ्चिन्मते नामान्यपि पृथक् । “विनोदो वरदश्चैव नन्दः कुमुद एव च । चत्वारो वासकाः प्रोक्ता गीतवाद्यविशारदैः ॥” इति सङ्गीतदामोदरः ॥ (वासरः । इति वासकसज्जाशब्दार्थे आलङ्का- रिकाः ॥)



Correction: