संस्कृत-शब्दकोशः

वासन वासन्त

वासना

वाचस्पत्यम्

वासना ||‍ स्त्री वासि—युच् । १ प्रत्याशायां २ ज्ञाने मेदि० ३ स्मृतिहेतौ संस्कारे जटा० । ४ सुरभीकरणे च । मिथ्याज्ञानजन्ये ५ संस्कारभेदे दोषशब्दार्थे । ६ आलय- विज्ञानानामेकसत्तानवर्त्तिनां तत्तत्प्रवृत्तिविज्ञानजनन- शक्तौ बौद्धाः । ७ गणितशास्त्रप्रसिद्धे ग्रहस्पष्टीकरणाद्यु पयोगिनि संस्कारभेदे च ।


शब्दकल्पद्रुमः

वासना || स्त्री (वासयति कर्म्मणा योजयति जीव- मनांसीति । वस + णिच् + युच् । टाप् ।)
प्रात्याशा । (यथा, भागवते । २ । २ । २ । “शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायनि धीरपार्थैः । परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥”)
ज्ञानम् । इति मेदिनी । ने, १३० ॥ स्मृतिहेतुः । तत्पर्य्यायः । संस्कारः २ भावना ३ । इति जटा- धरः ॥ देहात्मबुद्धिजन्यमिथ्यासंस्कारः । इति न्यायशास्त्रम् ॥ दुर्गा । यथा, —
“वसत्यदृष्टा सर्व्वेषु भूतेष्वन्तर्हितांय च । धातुर्व्वस निवासेति वासना तेन सा स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥ (अर्कस्य भार्य्या । यथा, भागवते । ६ । ६ । १३ । “अर्कस्य वासना भार्य्या पुत्त्रास्तर्षादयः स्मृताः ॥”)



Correction: