वाचस्पत्यम्
वासन्त || पुंस्त्री० वसन्तस्येदम् वसन्ते भवः वा अण् । वसन्त प्रिये १ उष्ट्रे मेदि० । २ कोकिले च राजनि० स्त्रियां ङीष् । वसन्तभवे ३ मलयवायौ ४ मुद्गे त्रिका० । ५ कृष्णमुद्गे हेमच० । ६ मदनवृक्षे च शब्दर० । ७ तत्कालभवे त्रि० । स्त्रियां ङीप् सा च ८ यूथ्या ९ माधवीलतायां धरणिः । १० पाटलायां विश्वः ११ नवमल्लिकायां भावप्र० । “वासन्ती शीतला लघ्वी तिक्ता दोषत्रयास्रजित्” भावप्र० । १० वसन्तकाले कर्त्तव्यदुर्गापूजायाम् । भविस्यपु० “मीनराशिस्थिते सूय्ये शुक्लपक्षे नराघिप! । सप्तमीं दशमीं यावत् पूजयेदम्बिकां सदा” भविष्यो- त्तरे “चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये । पूज- येद्विधिवद् दुर्गां दशम्याञ्च विसजयेत्” कालकौमुद्यां ज बालिः “चेत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये । पूजयेद्विविधैर्द्रव्यैर्लवङ्गकुसुमैस्तथा । नानाविधैश्च बलिभि- र्मेषादैर्दोषवर्जितैः । विचित्राभरणैः पार्थ! पट्टवस्त्रा- दिभिस्तथा । एवं यः कुरुते पूजां वर्षे वर्षे विधानतः । ईप्सितान् लभते कामान् पुत्रपौत्रादिकान्नृप!” इति । अत्र निरुपपदमासशब्दसङ्केतात् भविष्यपुराणवचने मीनराशिस्थित इति मीनस्थरव्यारब्धचान्द्रमासीय- तिथिपरम् । सौररव्यारब्धत्वे कदाचित् सप्तम्यादि- तिथित्रयालाभात् तद्वर्षे तत्कृत्यलोपः स्यात् न चेष्टापत्तिः भविष्यपुराणे सदापदोपादानात् जावालि- वचने वर्षे वर्षे इत्युपदानाच्च नित्यत्वम् । एतद्विवृतं कालविवेके । एवं जाबालिशेषवचनपरार्द्धे पुत्रादिरूप फलश्रवणात् काम्यत्वञ्च । ततश्च काम्यतया पूजने कृते प्रसङ्गान्नित्यसिद्धि । “सिताष्टम्यान्तु चैत्रस्य पुष्पेस्तत्काल सम्भवैः । अशोकैरपि यः कुर्य्यात् मन्त्रेणानेन पूज- नम् । न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः” इति कालिकापुराणवचनात् केवलाष्टमीकल्प उक्तः । चैत्रमासमधिकृत्य “नवम्यां पूजयेद्देवीं महिषासुर- मर्दिनीम् । कुङ्कुमागुरुकस्तूरीधूपान्नध्वजतपणैः । दम- नैर्मुरपत्रैश्च विजयाख्यपदं लभेत्” इत्यनेन केवल- नवमीकल्प उक्तः । व्यवस्था तु शारदीयपूजाप्रक- रणोक्ता ग्राह्या । विशेषस्तत्र बोधनप्रक्रिया नास्ति बाधि- ताया बोधनासम्भवात् इति प्राग्विवृतम् । होमादि- कञ्च पूर्ववज्ज्ञेयमिति दिक्” दुर्गोत्सवविवेकः । तत्काल- पूज्यत्वात् दुर्गापि वासन्तीत्युच्यते ।
शब्दकल्पद्रुमः
वासन्तः || पुं, (वसन्ते भवः । वसन्त + “सन्धि- वेलाद्यतुनक्षत्रेभ्योऽण् ।” ४ । ३ । १६ । इति अण् । उष्ट्रः । इति मेदिनी । ते, १५२ ॥ कोकिलः । इति राजनिर्घण्टः ॥ मलयवायुः । मुद्गः । इति त्रिकाण्डशेषः ॥ कृष्णमुद्गः । इति हेमचन्द्रः ॥ मदनवृक्षः । इति शब्दमाला ॥ आवहिते, त्रि । इति मेदिनी । ते, १५२ ॥ (वसन्तोप्ते च त्रि । इति सिद्धान्तकौमुदी । ४ । ३ । ४६ ॥)