संस्कृत-शब्दकोशः

विकली विकल्पसम

विकल्प

वाचस्पत्यम्

विकल्प ||‍ पु० विभिन्नः कल्पः । १ म्रान्तिज्ञाने २ कल्पने मेदि० ३ विविधकल्पने ४ संसर्गारोपणे, ५ पक्षतः प्राप्तौ च । विकल्पश्च द्विविधः व्यवस्थितः ऐच्छिकश्च । सोऽप्या- काङ्क्षाविरहे युक्तः तथा च भविष्ये “स्मृतिशास्त्रे विकल्पस्तु आकाङ्क्षापूरणे सति” । इच्छाविकल्पेऽष्ट- दोषः यथा “प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना । प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता” । ब्रीहिभिर्य- जेत यवैर्यजेत” इति श्रूयते । तत्र ब्रीहिप्रयोगे प्रतीत- यवप्रामाण्यपरित्यागः । अप्रतीतयवाप्रमाण्यपरि- कल्पनम् । इदन्तु पूर्वस्मात् पृथक् वाक्यम् अन्यथा ममुच्च- येऽपि यागसिद्धिः स्यात् । अतएव विकल्पे न उभयम् शास्त्रार्थ इत्युक्तम् । प्रयोगान्तरे यवे उपादीयमाने परित्यक्तयवप्रामाण्योज्जीवनं स्वीकृतयवाप्रामाण्य- हानिरिति चत्वारो दोषाः । एवं व्रीहावपि चत्वारः इत्यष्टौ दोषा इच्छाविकल्पे । तथा चोक्तम् । “एवमेवाष्ट- दोषाश्च यद् ब्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्था न विद्यते” इति । विविधं कल्प्यते इति वि- कल्पः । तस्मादष्टदोषभिया उपोष्य द्वे तिथी इत्यत्र न इच्छाविकल्पः किन्तु व्यवस्थितविकल्पः” एता० त० रघु० । पातञ्जलोक्तेः ६ चित्तवृत्तिभेदे यथा “शब्दज्ञानानुपाती- वस्तुशून्यो विकल्पः” सू० । “स न प्रमाणोपारोही न विप र्य्ययोपारोही वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्न्थ निबन्धनो व्यवहारो दृश्यते । तद् यथा चैतन्य पुरुषस्य स्वरूपमिति यदा चितिरेव पुरुषः तदा किमत्र केन व्यपदिश्यते भवति च व्यपदेशे वृत्तिः यथा चैत्रस्य गौ- रिति । तथा प्रतिषिद्धवस्तुधर्मा विष्क्रियः पुरुषः । तिष्ठति वाणः स्थास्यति स्थित इति गतिनिवृत्तौ धात्वर्थ- मात्रं गम्यते । तथानुत्पात्तधर्मा पुरुष इति उत्पत्ति- धर्मखाभावमात्रमवगम्यते न पुरुषान्वयी धर्मः तस्माद्वि- कल्पितः स धर्मस्तेन चास्ति व्यवहार इति । भा० “ननु शब्दज्ञानानुपाती चेदागमपमाणान्तर्गतो विकल्प प्रसज्येत निर्वस्तुकत्वे वा विपर्य्ययः स्यादित्यत” आह । स नेति । न प्रमाणविपर्य्ययान्तर्गतः कस्माद् यतो वस्तुशून्यत्वेपीति प्रमाणान्तर्गतिं निषेधयति । शब्द- ज्ञानमाहात्म्यनिबन्धन इति विपर्य्ययान्तर्गतिम्” । त- दुक्तं भवति क्वचिदभेदे भेदमारोपयति क्वचित् पुन- र्भिन्नानामभेदं ततो भेदस्याभेदस्य च वस्तुतोऽभावात् तदाभासो विकल्पो न प्रमाणं नापि विपर्य्ययो व्यव- हाराविसंवादादिति । शास्त्रप्रसिद्धमुदाहरणमाह तद् यथेति । किं विशेष्यं केन व्यपदिश्यते विशेष्यते, नाभेदे विशेष्यविशेषणभावो न हि गवा गौर्विशेष्यते । किन्तु भिन्नेन चैत्रेण तदिदामाह । भवति च व्यप- देशे वृत्तिः । व्यापदेश्यव्यापदेशकयोर्भावो व्यपदेशे वि- शेषणविशेष्यभाव इति यावत् तस्मिन् वृत्तिर्वाक्यस्य, यथा चैत्रस्य गौरिति । शास्त्रीयमेवोदाहरणान्तरं स- मुच्चिनीति तथेति प्रतिषिद्धवस्तुनः पृथिव्यादेः धर्मः परिस्पन्दो यस्य स तथोक्तः कोऽसौ निष्क्रियः पुरुषः । न खलु साङ्ख्यीये राद्धान्तेऽभावो नाम कश्चिदस्ति वस्तु धर्मो येन पुरुषो विशेष्येतेत्यर्थः । क्वचित् पाठं प्रति- मिद्धवस्तुधर्मा इति तस्यार्थः प्रतिषेधव्याप्त्या प्रति- षिद्धाभावो न वस्तुधर्माणां तद्व्यप्यता भावाभावयोरसम्ब न्धाटथ च तथा प्रतीतिरिति । लौकिकमुदाहरणमाह तिष्ठति वाण इति । पचति भिनत्तीत्यत्र पूर्वापरीभूतया पाकादिक्रिययेव स्थानक्रियया वाणाद्भिन्नया वाणस्य व्यपदेश इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । गतिनिवृत्तिरेव तावत् कल्पिता तस्या अभावरूपत्वम् । तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु ग म्यते न पुरुषाद् व्यतिरिक्तो धर्मः कश्चिदित्युदाहरणा- न्तरमाह । तथानुत्पत्तिधर्मेति । प्रमाणविपर्य्यया- भ्यामन्या न विकल्प वृत्तिरितिवादिनो वहवः प्रति- पेदिरे तत्पतिबोधनायोदाहरणप्रपञ्च” विव० । ७ ज्ञाने प्रकारतारूपविषयताभेदे यथा सविकल्पकं सप्रका- रताकं ज्ञानम् । निर्विकल्पकं निष्प्रकारताकं ज्ञानमित्मादि ८ वैचित्र्ये तस्य क्वचित् सत्त्वं क्वचिदसत्त्वम् । यथा “साध्यदृष्टान्तयोर्धर्मविकल्पात्” गौ० सू० वृत्तौ दृश्यम् ।


शब्दकल्पद्रुमः

विकल्पः || पुं, (विरुद्धं कल्पनमिति । वि + कृप + घञ् ।)
भ्रान्तिः । (यथा, देवीभाग- वते । १ । १९ । ३२ । “विकल्पोपहतस्त्वं वै दूरदेशमुपागतः । न मे विकल्पसन्देहो निर्व्विकल्पोऽस्मि सर्व्वथा ॥”)
कल्पनम् । इति मेदिनी । पे, ॥ (यथा, भाग- वते । ५ । १६ । २ । “तत्रापि प्रितव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धवः उपकॢप्ताः । यत एतस्याः सप्त- द्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचितः ॥” संशयः । यथा, रघुः । १७ । ४९ । “रात्रिन्दिवविभागेषु यथादिष्टं महीक्षिताम् । तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥” नानाविधः । यथा, मनुः । ९ । २२८ । “प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः । तस्य दण्डविकल्पः स्याद्तथेष्टं नृपतेस्तथा ॥”)
विविधकल्पः । स च द्विविधः । व्यवस्थितः । एच्छिकश्च । सोऽप्याकाङ्क्षाविरहे युक्तः । तथा च भविष्ये । “स्मृतिशास्त्रे विकल्पस्तु आकाङ्क्षापूरणे सति ॥” इच्छाविकल्पेऽष्टदोषाः । यथा, —
“प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना । प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता ॥” व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते । तत्र व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः । अप्रतीतयवाप्रामाण्यपरिकल्पनम् । इदन्तु पूर्ब्ब- स्मात् पृथक् वाक्यं अन्यथा समुच्चयेऽपि याग- सिद्धिः स्यात् । अतएव विकल्पे न उभयः शास्त्रार्थ इत्युक्तम् । प्रयोगान्तरे यवे उपा- दीयमाने परित्यक्तयवप्रामाण्योज्जीवनं स्वीकृत- यवाप्रामाण्यहानिरिति चत्वारो दोषाः । एवं व्रीहावपि चत्वारः । इत्यष्टौ दोषा इच्छा- विकल्पे । तथा चोक्तम् । “एवमेवाष्टदोषोऽपि यद्व्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते ॥” इति ॥ एकार्थतया विविधं कल्प्यते इति विकल्पः । तस्मादष्टदोषभिया उपोष्य द्वे तिथी इत्यत्र न इच्छाविकल्पः किन्तु व्यवस्थितविकल्पः । इत्येकादशीतत्त्वम् ॥ (अवान्तरः कल्पः । यथा, भागवते । २ । ८ । ११ । “यावान् कल्पो विकल्पो वा यथा कालोऽनु- मीयते ॥” देवता । यथा, भागवते । १० । ८५ । ११ । “वैकारिको विकल्पानां प्रधानमनुशायि- नाम् ॥” “विविधं आधिदैवाध्यात्माधिभूतभेदेन कल्प्यन्ते इति विकल्पा देवास्तेषां कारणं वैकारिकः सात्त्विकोऽहङ्कारश्च त्वम् ॥” इति तट्टीकायां स्वामी ॥)



Correction: