वाचस्पत्यम्
विक(शि)सित || त्रि० वि + कश(स)—क्त । प्रकाशयुक्ते ।
शब्दकल्पद्रुमः
विकसितं || त्रि (वि + कस + क्तः ।)
दलानामन्यो- न्यविश्लेषः । तत्पर्य्यायः । उज्जृम्भितम् २ उज्जृ- म्भम् ३ स्मितम् ४ उन्मिषितम् ५ विनिद्रम् ६ उन्निद्रम् ७ उन्मीलितम् ८ विजृम्भितम् ९ उद्बुद्धम् १० उद्भिदुरम् ११ भिन्नम् १२ उद्- भिन्नम् १३ हसितम् १४ विकस्वरम् १५ विक- चम् १६ व्याकोषम् १७ फुल्लम् १८ संफुल्लम् १९ स्फुटम् २० उदितम् २१ दलितम् २२ दीर्णम् २३ स्फुटितम् २४ उत्फुल्लम् २५ प्रफुल्लम् २६ । इति राजनिर्घण्टः ॥ (यथा, आर्य्यासप्तश- त्याम् । ४७६ । “यदवधिविवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी । पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्त्री ॥”)