संस्कृत-शब्दकोशः

विक्रयिन् विक्रान्ति

विक्रान्त

वाचस्पत्यम्

विक्रान्त ||‍ पु० वि + क्रम—क्त । १ सिंहे राजनि० २ शूरे च अमरः । भावे क्त । ३ विक्रमे ।


शब्दकल्पद्रुमः

विक्रान्तं || क्ली (वि + क्रम + क्तः ।)
वैक्रान्त- मणिः । इति राजनिर्घण्टः ॥ (त्रिविक्रमाव- तारस्य विष्णोर्द्वितीयपादक्षेपेण अन्तरिक्षं विक्रान्तमिति ख्यातम् । तथा च वाजसनेय- संहितायाम् । १० । १९ । “विष्णोर्विक्रमणमसि । विष्णोर्विक्रान्तमसि । विष्णोः क्रान्तमसि ।” “हे द्वितीयप्रक्रम त्वं विष्णोर्विक्रान्तं द्वितीय- पादप्रक्षेपेण जितमन्तरिक्षमसि ।” “इमे वै लोका विष्णोर्विक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तमिति श्रुतेः ।” इति तद्भाष्ये महीधरः ॥)


शब्दकल्पद्रुमः

विक्रान्तः || पुं, (वि + क्रम + क्तः ।)
शूरः । इत्य- मरः ॥ (वाच्यलिङ्गेऽपि दृश्यते । यथा, मुद्रा- राक्षसे । १ । “विक्रान्तैर्नयशालिभिः सुसचिवैः श्रीर्व्वक्र- नासादिभिः ॥”)
सिंहः । इति राजनिर्घण्टः ॥ (मदालसागर्भ- जात-ऋतध्वजपुत्त्रः । यथा, मार्कण्डेये । २५ । ८ । “मदालसायाः सञ्जज्ञे पुत्त्रः प्रथमजस्ततः । तस्य चक्रे पिता नाम विक्रान्त इति धीमतः ॥” हिरण्याक्षपुत्त्रविशेषः । यथा, हरिवंशे । ३ । ७८ — ७९ । “हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः । झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥”)



Correction: