संस्कृत-शब्दकोशः

विगणन विगतश्रीक

विगत

वाचस्पत्यम्

विगत ||‍ त्रि० वि + गम—क्त । १ प्रमादरहिते अमरः । २ विशेषगते रुद्र० ३ अपगते च हेमच० । ६ त० । ४ खगगतौ न० । “विगतं विगतम्” भट्टिः ।


शब्दकल्पद्रुमः

विगतः || त्रि (वि + गम + क्तः ।)
प्रभारहितः । तत्पर्य्यातः । निष्प्रभः २ अरोकः ३ । इत्य- मरः ॥ वीतः ४ । इति रुद्रः ॥ विशेषेण गतः । इति हेमचन्द्रः ॥ (यथा, माघे । ११ । २६ । “विगततिमिरपङ्कं पश्यति व्योम यावत् धुवति बिरहखिन्नः पक्षती यावदेव । रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ॥”)



Correction: