वाचस्पत्यम्
विचार || पु० वि + चर—घञ् । १ तत्त्वनिर्णये सन्दिग्धे वस्तुनि प्रमाणेन तत्त्वपरीक्षायां २ तदनुगुणे वाक्यस्तोमे च । ||“विपरीतोद्भावकपरविजिगीषया न्यायप्रयोग इति” केचित् प्राहुः । यथा पदार्थानुमानस्थले पर्वतो वह्णि- मान् धूमवत्त्वादित्यादि । अत्र च पर्वते वह्नौ साधनोये प्रतिवादिना च पर्वतो न वह्निमानित्यादि विपरीतवाक्ये प्रयुक्ते मध्यस्थस्य संशयी जन्यते । तन्निवृत्त्यर्थं वादिना पर्वतो वह्निमानित्यादिप्रतिज्ञादिघटितवाक्यप्रयोगरूपः विचारः क्रियते इति । ४ विगतश्चारो यस्मात् प्रा० व० । चार- शून्ये च “विचारदृक्चारदृगप्यवर्त्तत” ।
शब्दकल्पद्रुमः
विचारः || पुं, (विशेषेण चरणं पदार्थादिनिर्णये ज्ञानमिति । वि + चर + घञ् ।)
तत्त्वनिर्णयः । इति व्यवहारतत्त्वम् ॥ सन्दिग्धे वस्तुनि प्रमा- णेन तत्त्वपरीक्षा । इति गोयीचन्द्रः । प्रमाणै- रथपरीक्षणं विमर्शमात्रमिति केचित् । इति भरतः ॥ तत्पर्य्यायः । तर्कः २ निर्णयः ३ गुञ्जा ४ चर्च्चा ५ । इति त्रिकाण्डशेषः ॥ संख्या ६ विचारणा ७ । इत्यमरः ॥ चर्च्चनम् ८ संख्यानम् ९ । इति तट्टीका ॥ विचारणम् १० वितर्कः ११ व्युहः १२ व्यूहः १३ ऊहः १४ वितर्कणम् १५ । इति शब्दरत्नावली ॥ प्रणि- धानम् १६ समाधानम् १७ । इति जटाधरः ॥ (यथा, कथासरित्सागरे । ३६ । ८८ । “न चैवं क्षमते नारी विचारं मारमोहिता । यदियं क्रमते राज्ञी तव काम्यं विपद्गतम् ॥” नाट्योक्तलक्षणविशेषः । तल्लक्षणं यथा, साहित्य- दर्पणे । ६ । ४४७ । “विचारो युक्तवाक्यैर्य्यदप्रत्यक्षार्थसाधनम् ॥”)