संस्कृत-शब्दकोशः

विचिकित्सा विचित्रक

विचित्र

वाचस्पत्यम्

विचित्र ||‍ न० विशेषेण चित्रम् । १ कर्वूरवर्णे । २ तद्वति त्रि० शब्दच० ३ आश्चर्य्ये त्रि० । ४ मृगेर्वारौ स्त्री राजनि० । ५ अर्थालङ्कारभेदे न० अलङ्कारशब्दे ४०३ पृ० दृश्यम् । संज्ञायां कन् । भुर्जपत्रवृक्षे पु० राजनि० ।


शब्दकल्पद्रुमः

विचित्रं || क्ली (विशेषेण चित्रम् ।)
कर्व्वुरवर्णः । इति शब्दरत्नावली ॥ तद्वति, त्रि । (यथा, महाभारते । ३ । ५४ । १० । “विचित्रमाल्याभरणैर्ब्बलैर्दृश्यैः स्वलङ्कृतैः ॥”)
आश्चर्य्यम् । यथा, —
“विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥” इति देवीमाहात्म्यम् ॥ (यथा च, उपदेशशतके । ३३ । “दुहिता विदेहभर्त्तुर्द्दाशरथेर्भामिनी सीता । वधमाप राक्षसीनां विधेर्व्विचित्रा गति- र्ब्बोध्या ॥” पुं, रौच्यमनुपुत्त्रः । यथा, मार्कण्डेये । ९४ । ३१ । “चित्रसेनो विचित्रश्च नयतिर्निर्भयो दृढः । सुनेत्रः क्षत्त्रबुद्धिश्च सुव्रतश्चैव तत्सुताः ॥” अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७२२ । “विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् । यथा, — प्रणमत्युन्नतिहेतोर्जीवनहेतोर्व्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूडः सेवकादन्यः ॥”)



Correction: