शब्दकल्पद्रुमः
विच्युतिः || स्त्री (वि + च्यु + क्तिन् ।) वियोगः । यथा, — “सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्व्विन्नमानसः । ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥