संस्कृत-शब्दकोशः

विच्युति विजन

विज

वाचस्पत्यम्

विज ||‍ पृथक्करणे जु० उभ० सक० अनिट् । वेवेक्ति वेविक्ते इरित् अविजत् अवैक्षीत् अविक्त ।


वाचस्पत्यम्

विज ||‍ भये कम्पे च तु० आ० अ० अनिट् । विजते अविजिष्ट । ईदित् ओदिच्च क्त—विग्नः ।


वाचस्पत्यम्

विज ||‍ भये कम्ये च रु० पर० अक० सेट् । विनक्ति अविजीत् । ईदित् ओदिच्च विग्नः ।


शब्दकल्पद्रुमः

विज || इर् लि ञ औ वेके । इति कविकल्पद्रुमः ॥ (अदा०-ह्वा०-उभ०-अक०-अनिट् ।)
वेक इति विचिर्लि धौ ञ पृथक्त्वे इत्यस्य घञि रूपम् । इर्, अविजत् अवैक्षीत् । लि ञ, वेवेक्ति वेविक्ते मूर्खात् पण्डितः कृथक् स्यादि- त्यर्थः । औ, वेक्ता । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

विज || ई ओ ध भीकम्पे । इति कविकल्पद्रुमः ॥ (रुधा०-पर०-अक०-सेट् । अनिड्निष्ठः ।)
ई ओ, विग्नः । ध, विनक्ति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

विज || ङ श ई ओ भीकम्पे । इति कविकल्पद्रुमः ॥ (तुदा०-आत्म०-अक०-सेट् । निष्ठायामनिट् ।)
ङ श, विजते । ई ओ, विग्नः । द्बावर्थौ । इति दुर्गादासः ॥



Correction: