वाचस्पत्यम्
विजय || पु० वि + ज—कर्त्तरि अच् । १ अर्जुने मेदि० । “अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान् । नाजित्वा विनिवर्त्तामि तेन मां विजयं विदुः” भा० वि० ४४ अ० । २ विमाने हेमच० ३ यमे च । ४ विष्णोरनुचरभेदे । जय- शब्दे ३०५० पृ० दृश्यम् । तच्छब्दशब्दे दर्शिते ५ नृपभेदे ६ कल्किपुत्रभेदे कल्किपु० १३ अ० । भावे अच् । जये ८ परिभवपूर्वकग्रहणे च ।
शब्दकल्पद्रुमः
विजयः || पुं, (वि + जि + भावे अच् ।)
जयः । इत्यमरः ॥ (यथा, मनौ । १० । ११९ । “स्वधर्म्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः । शस्त्रेण वैश्यान् रक्षित्वा धर्म्मसंहारयेद्वलिम् ॥”)
अर्ज्जुनः । इति मेदिनी । ये, १०४ ॥ (यथा, महाभारते । ४ । ४२ । १४ । “अभिप्रयामि संग्रामे यदहं युद्धदुर्म्मदान् । नाजित्वा विनिवर्त्तामि तेन मां विजयं विदुः ॥” यथा च विख्यातविजयनाटके । २ । “इतो भीमः क्रूरो नृपतिसहजन्मानमवधीत् इतः क्रुद्धो वत्सं व्यथयति शरौघेण विजयः । न मे चेतःस्थैर्य्यं द्रढयति सखे कुत्र गमनं विधेयं तद्ब्रूहि त्वमसि सदसद्बाक्यविषयः ॥”)
वृत्तार्हत्पिता । जिनबलदेवः । विमानः । इति हेमचन्द्रः ॥ यमः । इति शब्दचन्द्रिका ॥ कल्किपुत्त्रः । यथा, —
“ततः कल्किश्च पद्मायां जयो विजय एव च । द्वौ पुत्त्रौ जनयामास लोकख्यातौ महाबलौ ॥” इति श्रीकल्किपुराणे १३ अध्यायः ॥ भैरववंशीयकल्पराजपुत्त्रः । स काशीराजः खाण्डववनकर्त्ता च । यथा, —
“सुमतेरभवत् कल्पः सुतः सत्यस्य डिण्डिमः । विरूपस्याभवद्गाधिर्गाधेर्म्मित्रोऽभवत् सुतः ॥ तेषां कल्पोऽभवद्राजा कल्पात्तु विजयोऽभवत् ॥ यो विजित्य क्षितिं सर्व्वां पार्थिवान् भूरितेजसा । शक्रस्यानुमते चक्रे खाण्डवं शतयोजनम् ॥ यत् सव्यसाची ह्यदहत् पाण्डुपुत्त्रः प्रताप- वान् । आवहन् परमां प्रीतिं ज्वलनस्य महात्मनः ॥” इति कालिकापुराणे भैरववंशानुकीर्त्तनम् ९० अध्यायः ॥ विष्ण्वनुचरविशेषः । यथा । विष्ण्वनु- चराश्चण्डप्रचण्डजयविजयादयः । इति पुंलिङ्ग- संग्रहे भरतः ॥