वाचस्पत्यम्
विजिगीषा || स्त्री विजेतुमिच्छा वि + जि—सन् भावे अ । १ स्वोदरपूरणेच्छया निन्दनीयकर्मादौ प्रवृत्तौ २ तन्निन्दा- ऽगणने रमा० ३ विजयेच्छायाञ्च । उ । विजिगीषु जयेच्छावति त्रि० शब्दच० ।
शब्दकल्पद्रुमः
विजिगीषा || स्त्री (विजेतुमिच्छा । वि + जि + सन् + अः । स्त्रियां टाप् ।)
स्वोदरपूरणाशक्ति- निमित्तकनिन्दात्यागेच्छा । इत्यमरटीकायां रमानाथः ॥ व्यवहारः । कश्चित् प्रकर्षः । इति तत्रैव भरतः ॥ विजयेच्छा च ॥ (यथा, कथासरित्सागरे । ३६ । ७१ । “द्वारे विधिमिवान्यं तत्तद्रक्षा विजिगीषया । आगतं पुरुषं कञ्चिद्ददर्शाश्चर्य्यदायकम् ॥”)