शब्दकल्पद्रुमः
विडम्बना || स्त्री (वि + डम्ब + णिच् + युच् । टाप् ।)
अनुकरणम् । (यथा, कुमारे । ४ । १२ । “असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥”)
प्रतारणम् । (यथा, पञ्चतन्त्रे । ४ । ४६ । “नो चेदेतेषां सकाशात् विडम्बनां प्राप्य मरि- ष्यसि ॥” * ॥
परिहासः । यथा, कुमारे । ५ । ७० । “इयञ्च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्य्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥”)