शब्दकल्पद्रुमः
विडम्बितः || त्रि (वि + डम्ब + क्तः ।) कृतविड- म्बनः । तत्पर्य्यायः । व्यस्तः २ आकुलः ३ दुर्गतः ४ । इति शब्दमाला ॥ (अनुकृतः । यथा, रघुः । ३ । ५२ । “अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥”)