संस्कृत-शब्दकोशः

विदीर्ण विदुर

विदु

वाचस्पत्यम्

विदु ||‍ पु० विद—कु । हस्तिकुम्भमध्यभागे अमरः ।


शब्दकल्पद्रुमः

विदुः || पुं, (वेत्ति संज्ञामनेनेति । विद् + बाहु- लकात् कुः ।)
गजकुम्भद्वयमध्यभागः । इत्य- मरः ॥ (अश्वकर्णाधोभागः । यथा, अश्व- वैद्यके । २ । १४ । “विदुर्मर्मविदुश्चैव कर्णस्याधः षडङ्गुले ॥”)
जानन्ति । इति क्रियापदम् ॥ (यथा, महा- भारते । १ । १२० । २८ । “अपत्यं नाम लोकेषु प्रतिष्ठा धर्म्मसंहिता । इति कुन्ति ! विदुर्धीराः शाश्वतं धर्म्म- वादिनः ॥”)



Correction: