संस्कृत-शब्दकोशः

विदु विदुल

विदुर

वाचस्पत्यम्

विदुर ||‍ त्रि० विद—कुरच् । १ नागरे २ धीरे ३ कौरवाणां म- न्त्रिणि दासीगर्भजाते धर्म्मावतारभेदे च मेदि० भा० आ० १०६ अ० । ४ ज्ञातरि च अमरः ।


शब्दकल्पद्रुमः

विदुरः || पुं, (वेत्ति तच्छीलः । विद् + “विदिभिदि- च्छिदेः कुरच् ।” ३ । २ । १६२ । इति कुरच् ।)
नागरः । घीरः । कौरवाणां मन्त्री । इति मेदिनी । रे, ११५ ॥ विदुरोत्पत्तिर्यथा, —
“क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो वादरायणः । धृतराष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् ॥” इति श्रीभागवते । ९ । २२ ॥ ज्ञातरि, त्रि । इत्यमरः ॥ * ॥



Correction: