संस्कृत-शब्दकोशः

विद्याधन विद्यारम्भ

विद्याधर

वाचस्पत्यम्

विद्याधर ||‍ पु० विद्यां मन्त्रादिकं धरति धृ—अच् । १ देवयोनि- भेदे अमरः । २ विद्याधारके त्रि० ।


शब्दकल्पद्रुमः

विद्याधरः || पुं, देवयोनिविशेषः । इत्यमरः ॥ विद्यां मन्त्रादिकं धरति पचादित्वादः । पुष्पदन्तादिः कामरूपी खेचरः । इति भरतः ॥ (यथा, रघुः । २ । ६० । “तस्मिन् क्षणे पालयितुः प्रजाना- मुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥”)
तस्योत्पत्त्यादिर्यथा, —
“नैकैर्यक्षगणैर्व्याप्तं त्रैलोक्यमप्सरोगणैः । तेषामुत्पादितान्योन्यं महागन्धर्व्वनायकाः ॥ उत्पादिताः पुनस्तैर्ये विक्रान्ता युद्धदुर्म्मदाः । विद्याधरेश्वरास्ते तु खेचराः कामचारिणः ॥ हिरण्यरोमा कपिलः सुलोमा माधवस्तथा । इन्द्रकेतुश्च पिङ्गाङ्गो नादश्चैव महाबलः ॥ गण इत्येवमादिस्तु द्वे चान्ये वै सुलोचने । शिवा च मुमनाश्चैव ताभ्यामपि च विश्रवाः ॥ पुनश्चोत्पादयामास विद्या सौमनसं गणम् । एतैर्व्याप्तो ह्ययं लोको विद्याधरगणैस्त्रिभिः ॥ एभ्योऽनेकानि जातानि ह्यवरान्तरचारिणाम् । लोकेऽस्मिन् गणशस्तानि मन्त्रविद्याविचारि- णाम् । विद्याधरास्तथान्येऽपि विद्याबलसमन्विताः ॥” इति वह्रिपुराणे काश्यपीयवंशः ॥ * ॥
षोडशरतिबन्धान्तर्गतचरमबन्धः । तस्य लक्षणं यथा, रतिमञ्जर्य्याम् । “नार्य्या ऊरुयुगं धृत्वा कराभ्यां ताडयेत् पुनः । कामयेन्निर्भरं कामी बन्धो विद्याधरो मतः ॥”



Correction: