संस्कृत-शब्दकोशः

विद्याधर विद्यावत्

विद्यारम्भ

वाचस्पत्यम्

विद्यारम्भ ||‍ पु० ६ त० । पञ्चमवर्षे शिशोः कर्त्तव्ये विद्याया आरम्भे तत्कालादि० ज्यो० त० उक्तं यथा “संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्दने । षष्ठीं प्रति- पदञ्चैव वर्ज्जयित्वा तथाष्टमीम् । रिक्तां पञ्चदशीं चैव शौरिभौमदिनं तथा । एवं सुनिश्चिते काले विद्यारम्भं तु कारयेत् । पूजयित्वा हरिं लक्ष्मीं देवीञ्चापि सर- स्वतीम् । स्वविद्यासूत्रकारांश्च स्वाञ्च विद्या विशेषतः” विष्णुध० । “लघुचरशिवमूलाधोमुखत्वष्टृपौष्णशशिषु च हरिबोधे शुक्रजीवार्कवारे । उदितवति च जीवे केन्द्रकोणेषु सौम्यैरपठनदिनवर्जं पाठयेत् पञ्चमेऽव्दे” दोपिका । “विद्यारम्भे गुरुः श्रेष्ठो मध्यमौ भृगुभा- स्करौ । मरणं शनिभौमाभ्यामविद्या । बुधसोमयोः” मदनपा० । “विद्यारम्भः सुरगुरुसितज्ञेष्वमीष्टार्थदायी कर्तुश्चायुश्चिरमपि करोत्यंशुमान् मध्यमोऽत्र । नीहा- रांशौ भवति जडता पञ्चता भूमिपुत्रे छायासूनावपि च मुनयः कीर्त्तयन्त्येवमाद्याः” रवेर्गुरोर्भृगोर्लग्ने तत्स्थेऽर्केऽपीन्दुवृद्धितः । गुर्वर्केन्दूडुशुद्धौ च विद्या- रम्भः प्रशस्यते” । “प्राङमुखो गुरुरासीनो वरुणाभिमुखं शिशुम् । अध्यापयेच्च प्रथमं द्विजाशीर्भिः समन्वितम् । वृहस्पतिः । तद्विधिः कृत्यतत्त्वे दृश्यः । अविद्या बुधसो- मयोरिति धनुर्विद्याविषयम् यथोक्तं दोपिकायाम् “अदितिसुतयमार्कस्वातिचित्राग्निपैत्रध्रुवहरिवसुमूलाश्वी- ब्दुमाम्यान्त्यभेषु । विशनिशशिबुधाहे विष्णुबोधे विपौषे सुसमयतिथियोगे चापविद्याप्रदानम्” तत्राक्षरग्रहणे विद्यारम्भे च लग्नशुद्धिरावश्यकीत्याह” पी० धा० नृसिंहः “शुभाः पापाश्च रन्ध्रस्थाः सर्वे नेष्टाः सदा ग्रहाः । भ्रातृषष्ठावकर्मस्थाः पापाः सर्वे शुभावहाः । शुभाः केन्द्रत्रिकोणस्थाः धनभ्रातृगताः शुभाः । सर्वे लाभे प्रशस्ताः स्वुरक्षरग्रहणे शिशोः” । अक्षरग्रहणं विद्यापलक्षणम्” उभयत्रापि उत्तरायणस्यैव ग्राह्यता । “उदग्गते भास्यति पञ्चमेऽवदे” वसिष्ठोक्तेः ।



Correction: