वाचस्पत्यम्
विद्वेषण || न० वि + द्विष—णिच्—ल्युट् । तन्त्रोक्ते अभिचारकर्म भेदे येन शत्रूणां परस्परविद्वेषो भवति तस्मिन् व्यापारे । वि + द्विष ल्युट् । २ विद्वेषे ।
शब्दकल्पद्रुमः
विद्वेषणं || क्ली विद्वेषः । विपूर्ब्बद्बिंषधातोरनट् (ल्युट्)प्रत्ययेन निष्पन्नम् ॥ (यथा, महाभारते । ३ । १९५ । ३ । “विद्वेषणं परमं जीवलोके कुर्य्यान्नः पार्थिव याच्यमानः । तत्त्वां पृच्छामि कथयन्तु राजन् दद्याद्भवान् दयितञ्च मेऽद्य ॥”)
अभिचारकर्म्मविशेषः । तस्य विहितदिनादि यथा, —
“सूर्य्योदयं समारभ्य घटिकादशकं क्रमात् । ऋतवः स्युर्व्वसन्ताद्या अहोरात्रं दिने दिने ॥ वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशैशिराः । हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्म्मणि ॥ शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः । पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्म्मणि ॥ वश्यं पूर्ब्बेऽह्नि मध्याह्ने विद्वेषोच्चाटनं तथा । शान्तिपुष्ठी दिनस्यान्ते सन्ध्याकाले च मारणम् ॥ कुर्य्याच्च स्तम्भनं कार्य्यं हर्य्यक्षवृश्चिकोदये । द्बेषोच्चाटादिकं कर्म्म कुलीरे वा तुलोदये ॥” भूतोदयनियममाह । “जलं शान्तिविधौ शस्तं वश्ये वह्निरुदीरितः । स्तम्भने पृथिवी शस्ता विद्बेषे व्योम कीर्त्ति- तम् ॥” दिङ्नियममाह । “याम्ये रक्षसि विद्वेषं शान्तिं वारुणवायवे ॥” नक्षत्रनियममाह । “विद्वेषोच्चाटनं वह्रिवायुयोगे च कारयेत् ॥ * ॥
अथ विद्वेषणं वक्ष्ये मिथो विद्वेषणं रिपोः । करणीयं महेशानि ! यदुक्तं मालिनीमते ॥ अन्योन्ययुद्धसंरम्भरुषितौ समरे युतौ । तदीयनखरोड्डीनधूलिमादाय साधकः ॥ धूलिना तेन विद्वेषस्ताडनादभिजायते ॥ * ॥
परस्परं रिपोर्व्वैरं मित्रेण सह निश्चितम् । महिषाश्वपुरीषाभ्यां गोमूत्रेण समालिखेत् ॥ यस्य नाम तयोः शीघ्र विद्वेषश्च परस्परम् । रक्तेन महिषाश्वेन श्मशानवस्त्रके लिखेत् ॥ यस्य नाम भवेत्तस्य काकपक्षेण लेखितम् । वेष्टयेत् द्बिजचाण्डालकेशैरेकतरैस्ततः ॥ गर्त्ते आमशरावन्तु पितृकाननमध्यतः । षट्कोणचक्रमध्ये तु रिपोर्नामसमन्वितम् ॥ मन्त्रराजं प्रवक्ष्यामि महाभैरवसंज्ञकम् । ॐ नमो महाभैरवाय रुद्ररूपाय श्मशान- वासिने अमुकामुकयोर्व्विद्वेषं कुरु कुरु सुरु सुरु हुँ हुँ फट् । एतन्मन्त्रं लिखेत्तत्र विद्वेषो जायते ध्रुवम् ॥” इति षट्कर्म्मदीपिका ॥ (विशेषेण द्वेष्टीति । वि + द्विष + ल्युः । विद्वे- षके, त्रि । यथा, हरिवंशे । २८ । ३० । “नास्ति-वादार्थशास्त्रं हि धर्म्मविद्वेषणं परम् ॥” तथा च महाभारते । १३ । १२६ । २ । “ब्राह्मणानां परीवादो मम विद्वेषणं महत् । ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः ॥”)