वाचस्पत्यम्
विधेय || त्रि० वि + धा—यत् । १ विधातं योग्ये २ वचनस्थे आ- यत्ते अमरः । ३ विधिना बोध्ये च । ४ उद्देश्यप्रकार- तया ज्ञाययाने विलक्षणविषयतायुते पदार्थे यथा पर्वतो वह्निमानित्यादौ वह्निर्विधेयः । पचतीत्यादौ पाककृतिः आख्यातार्थस्य विधेयतयैव बोधस्याङ्गी- कारात् । विधेयता तु विलक्षणविषयता अनुवाद्य- भिन्ननिष्ठा “अनुवादमनुक्त्वा च न विधेयमुदीरयेत्” इति शाब्दिकनियमः । प्रत्यक्षादिप्रमितविशेष्यतावच्छेदकता- भिन्ना विशेष्यतानिरूपिता च सेत्यन्ये ।
शब्दकल्पद्रुमः
विधेयः || त्रि विधातुं शक्यः । (वि + धा + “अचो यत् ।” ३ । १ । ९७ । इति यत् । “ईद्यति ।” ६ । ४ । ६५ । इति आत ईत् ।)
वाक्यस्थः । तत्पर्य्यायः । विनयग्राही २ वचनेस्थितः ३ आश्रवः ४ । इत्य- मरः ॥ (यथा, महाभारते । ५ । २३ । १३ । “कर्णोऽमात्यः कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः ॥”)
विधिजन्यबोधविषयः । यथा, —
“अनुवाद्यमनुक्त्वा तु न विधेयमुदीरयेत् । न ह्यलब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥” इत्येकादशीतत्त्वम् ॥ अपि च । प्रमाणान्तरासन्निहितं कर्म्म प्रथमं बुद्धौ न विषयीभवति शब्दादेव तस्य कर्म्मण उपस्थितिरित्युपादेये विधेये कर्म्मणि पूजादौ शुचितत्कालजीविनः कर्म्माधिकारात् प्रमाणा- न्तरलभ्यत्वेनाविधेयत्वात्तिथ्यादिर्गुणः । इति तिथ्यादितत्त्वम् ॥ (कर्त्तव्यम् । यथा, बृहत्- संहितायाम् । ९५ । ४९ । “द्बात्रिंशत्प्रविभक्ते दिक्चक्रे यद्यथा समु- द्दिष्टम् ॥ तत्तथा विधेयं गुणदोषफलं यियासूनाम् ॥” * ॥
अधीनः । यथा, रघुः । १९ । ४ । “सन्निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥” तथा च तत्रैव । ७ । ६२ । “तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥”)