संस्कृत-शब्दकोशः

विध्वंस विनता

विनत

वाचस्पत्यम्

विनत ||‍ त्रि० वि + नम—क्त । १ प्रणते २ भुग्ने ३ शिक्षिते च मेदि० । गरुडमातरि ४ कश्यपपत्नोभेदे ५ पिटकाभेदे च स्त्री मेदि ।


शब्दकल्पद्रुमः

विनतः || त्रि (वि + नम + क्तः ।)
प्रणतः । (यथा, आर्य्यासप्तशत्याम् । ६१६ । “सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि । खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितः कोपः ॥”)
भुग्नः । (यथा, बृहत्संहितायाम् । ६१ । ३ । “दशसप्तचतुर्द्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः । ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥”)
शिक्षितः । इति मेदिनी । ते, १५६ ॥ (सङ्कु- चितः । यथा, रामायणे । १ । ४३ । २४ । “विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः । सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥” पुं, स्वनामख्यातवानरविशेषः । यथा, भट्टिः । ७ । ५२ । “प्राचीं तावद्भिरव्यग्रः कपिभिर्विनतो ययौ । अप्रग्राहैरिवादित्यो वाजिभिर्दूरपातिभिः ॥”)



Correction: