शब्दकल्पद्रुमः
विनता || स्त्री गरुडमाता । (सा तु दक्षप्रजापतेः कन्या । यथा, महाभारते । १ । ६५ । १२ । “क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः । कद्रुश्च मनुजव्याघ्र दक्षकन्यैव भारत ॥”)
पिडकाभेदः । इति मेदिनी । ते, १५६ ॥ (यथा, सुश्रुते । २ । ६ । “महती पिडका नीला पिडका विनता स्मृता ॥”)