वाचस्पत्यम्
विनिद्र || त्रि० विगता निद्रा यस्य । १ प्रकाशिते शब्दमा० । २ निद्रा- हीने च । तस्य भावः । त्वा विनिद्रत्व प्रबोधे न० हेमच० ।
शब्दकल्पद्रुमः
विनिद्रः || त्रि (विगता निद्रा मुद्रना यस्य ।)
उन्मीलितः । इति शब्दमाला ॥ (यथा, नैषधे । १ । ३४ । “विनिद्ररोमाजनि शृण्वती नलम् ॥” तथा च सा हत्यदर्पणे । १० परिच्छेदे । “उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ॥”)
निद्रारहितः । (यथा, महाभारते । ३ । २८५ । २१ । “स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः । ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥”)