संस्कृत-शब्दकोशः

विन्धस विन्ध्यकूट

विन्ध्य

वाचस्पत्यम्

विन्ध्य ||‍ पु० विध—यत पृषो० मुम् च । १ पर्वतभेदे अमरः । २ व्याधे च । ३ लवनीवृक्षे स्त्री मेदि० । ४ सूक्ष्मेलायां हेमच० । ५ आवन्त्ये नृपभेदे पु० अनुविन्ध्यशब्दे १८५ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

विन्ध्यः || पुं, पर्व्वतविशेषः । इत्यमरः ॥ (यथा, मनौ । २ । २१ । “हिमवविन्ध्ययोर्मध्यं यः प्राग्विनशना- दपि । प्रत्यगेव प्रयगाञ्च मध्यदेशः प्रकीर्त्तितः ॥”)
व्याधः । इति मेदिनी ॥ विन्ध्यपर्व्वतस्य निम्न- शृङ्गत्वकारणम् । यथा, — नारद उवाच । “किमर्थमद्रिं भगवानगस्त्य- स्तं निम्नशृङ्गं कृतवान् मह्र्षिः । कस्मै कृते केन च कारणेन नस्तद्वदस्वाखिलसत्त्ववृत्ते ॥ पुलस्त्य उवाच । पुरा हि विन्ध्येन दिवाकरस्य गतिर्न्निरुद्धा गगनेचरस्य । रविस्ततः कुम्भभवं समेत्य होमावसाने वचनं बभाषे ॥ समागतोऽहञ्च द्विजर्षभ त्वां कुरुष्व मय्युद्धरणं मुनीन्द्र । ददस्व दानं मम यन्मनीषितं चरामि येन त्रिदिवे सुनिर्वृतः ॥ इत्थं दिवाकरवचो गुणसङ्गयोगि श्रुत्वा तदा कलसजो वचनं बभाषे । दानं ददामि तव यन्मनसा त्वभीष्टं नार्थी प्रयाति विमुखो मम कश्चिदेव ॥ श्रुत्वा वचोऽमृतमयं कलसोद्भवस्य प्राह प्रभुः करपुटं प्रणिधाय मूर्द्ध्नि । एषोऽद्य मे गिरिवरः प्ररुणद्धि मार्गं विन्ध्यस्य निम्रकरणे भगवान् यतस्व ॥ इति रविवचनादुवाच कुम्भजन्मा कृतमिति तद्धि मया हि नीचशृङ्गम् । तव किरणजितो भविष्यतीति महीध्रो मम हि शरणसमागतस्य का व्यथा ते ॥ इत्येवमुक्त्वा कलसोद्भवस्तु सूर्य्यञ्च संस्तूय विनम्य भक्त्या । जगाम संत्यज्य हि दण्डकं हि विन्ध्याचलं वृद्धवपुर्महर्षिः ॥ गत्वा वचः प्राह मुनिर्महीध्रं यास्ये महातीर्थवरं सुपुण्यम् । वृद्धोऽप्यशक्तश्च तवाधिरोढुं तस्माद्भवान् नीचतरोऽस्तु सद्यः ॥ इत्येवमुक्तो मुनिसत्तमेन स नीचशृङ्गस्त्वभवन् महीध्रः । समाक्रमच्चापि महर्षिमुख्यः प्रोल्लङ्म विन्ध्यं द्विज आह शैलम् ॥ यावन्न भूयो निजमाव्रजामि महाश्रमं धौतवपुः सुतीर्थात् । त्वया न तावत्त्विह वर्द्धितव्यं न चेत् शपिष्येऽहमवज्ञया ते ॥ इत्येवमुक्त्वा भगवान् जगाम दिशं स यामीं सहसान्तरीक्षम् । आक्रम्य तस्थौ स हि तां तदाशां काले व्रजाम्यत्र यदा मुनीन्द्र ॥ तत्राश्रमं रम्यतरं हि कृत्वा संशुद्धजाम्बूनदतोरणान्तम् । तत्राथ निःक्षिप्य विदर्भपुत्त्रीं स्वमाश्रमं सौन्यमुपाजगाम ॥ ऋतावृतौ कार्य्यपरो ह्यगस्त्यो नित्यं तदा स्वाश्रममावसत् सः । शेषञ्च कालं स हि दण्डकस्थ- स्तपश्चचारामितकान्तिमान्मुनिः ॥ विन्ध्योऽपि दृष्ट्वा गगने महाश्रमं वृद्धिं न यात्येव भयान्महर्षेः । नासौ निवृत्तेऽभिमतिं निधाय स संस्थितो नीचतराग्रशृङ्गः ॥ एवं त्वगस्त्येन महाचलेन्द्रः स नीचशृङ्गो हि कृतो महर्षे । तस्योर्द्ध्वशृङ्गे मुनिसंस्तुता सा दुर्गा स्थिता दानवशासनार्थे ॥ देवाश्च सिद्धाश्च महोरगाश्च विद्याधरा भूतगणाश्च सर्व्वे । सर्व्वाप्सरोभिः सहिता दिवानिशं कात्यायनीं तस्थुरपेतशोकाः ॥” इति वामनपुराणे देवीमाहात्म्ये १८ अध्यायः ॥ “आर्य्यावर्त्तः पुण्यभूमिर्मध्यं विन्ध्यहिमागयोः ।” इत्यमरः ॥ “विन्ध्यस्य पश्चिमे भागे मत्स्यभुक् पतितो भवेत् ॥” इति प्राचीनाः ॥



Correction: