शब्दकल्पद्रुमः
विन्ध्यकूटः || पुं, (विन्ध्ये कूटं माया कैतवं वा यस्य । व्याजेन तस्यावनतीकरणादस्य तथात्वम् ।) अगस्त्यमुनिः । इति त्रिकाण्डशेषः ॥