वाचस्पत्यम्
विन्न || त्रि० विद—कर्मणि क्त । १ विचारिते २ प्राप्ते अमरः । ३ ज्ञाते ४ स्थिते च विश्वः ।
शब्दकल्पद्रुमः
विन्नः || त्रि (विद् + क्तः । “नुदविदेति ।” ८ । २ । ५६ । नत्वम् ।) विचारितः । प्राप्तः । इत्यमरः ॥ ज्ञातः । स्थितः । इति विश्वः ॥