संस्कृत-शब्दकोशः

विन्न विन्याक

विन्यस्त

शब्दकल्पद्रुमः

विन्यस्तः || त्रि (वि + नि + अस + क्तः ।)
कृत- विन्यासः । यथा, —
“सद्द्रव्या गुणगुम्फिता सुकृतिनां सत्कर्म्मणां ज्ञापिका सत्सामान्यविशेषनित्यमिलिता भावप्रकर्षोज्- ज्वला । विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्ता- वली विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा चिरम् ॥” इति सिद्धान्तमुक्तावली ॥



Correction: