संस्कृत-शब्दकोशः

विपशिन् विपाक

विपश्चित्

वाचस्पत्यम्

विपश्चित् ||‍ पु० विप्रकृष्टं चेतति वि + प्र + चित—क्विप् पृषो० । पण्डिते अमरः ।


शब्दकल्पद्रुमः

विपश्चित् || त्रि (विशेषं पश्यति विप्रकृष्टं चेतति चिनोति चिन्तयति वा । पृषोदरादित्वात् साधुः ।)
पण्डितः । इत्यमरः ॥ (यथा, मनौ । ७ । ५८ । “सर्व्वेषान्तु विशिष्टेन ब्राह्मणेन विपश्चिता ॥”)



Correction: