वाचस्पत्यम्
विपाक || पु० वि + पच—भावे घञ् । १ पाके २ स्वेदे च । कर्मणि घञ् । २ कर्मफलपरिणामे जात्यायुर्भोगरूपे पदार्थे । “सति मूले तद्विपाको जात्यायुर्भोघाः” पात० सू० “सतसु क्लेशेषु (अविद्यादिषु) कर्माशयो विपाकारम्भी भवति नो- च्छिन्नक्लेशमूलोऽपि । यथैव तुषारनद्धाः शालितण्डुलाः अदग्धवीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा- दग्धवीजमावा वा तथा क्लेशावनद्धः कर्माशयो विपाक- प्ररोही भवति नापनीतक्लेशो न प्रसंख्यानदग्धवीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोगश्चेति” भा० ।
शब्दकल्पद्रुमः
विपाकः || पुं, (वि + पच + भावे कर्म्मणि वा घञ् ।)
पचनम् । (यथा, भागवते । ५ । १६ । २० । “तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानु- विध्यमाना वाय्वर्कसंयोगविपाकेन सदामर- लोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥”)
स्वेदः । कर्म्मणो विसदृक्फलम् । इति मेदिनी ॥ (फलमात्रम् । यथा, भागवते । १० । ७१ । १० । “जरासन्धबधः कृष्ण भूर्य्यर्थायोपकल्प्यते । प्रायःपाकविपाकेन तव चाभिमतः क्रतुः ॥” चरमोत्कर्षः । यथा, तत्रैव । ४ । ९ । २ । “सवै धिया योगविपाकतीव्रया हृत्पद्मकोषे स्फुरितं तडित्प्रभम् ॥”)
परिणामः । दुर्गतिः । स्वादुः । इति हेम- चन्द्रः ॥ जातिः । आयुः । भोगः । इति कुसुमाञ्जलिः ॥ * ॥
(कर्म्मफलरूपस्यैव विपा- कस्य त्रैविध्यम् । यथाच पातञ्जले । २ । १३ । “सति मूले तद्बिपाको जात्यायुर्भोगाः ॥” “सतसु क्लेशेषु कर्म्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलोऽपि । यथैव तुषावनद्धाः शालितण्डुला दग्धबीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा । तथा क्लेशावनद्धः कर्म्माशयो विपाकप्ररोही भवति नापनीतक्लेशोनप्रसंख्यानदग्धबीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोगश्चेति ॥” इति तद्भाष्यम् ॥)
“जाठरेणाग्निना योगात् यदुदेति रसान्त- रम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥” इति सुश्रुतः ॥ अपि च । “मिष्टः कटुश्च मधुरमम्लोऽम्लं पच्यते रसः । कटुतिक्तकषायाणां पाकः स्यात् प्रायशः कटुः ॥” तथा च वाग्भटः । “त्रिधा रसानां पाकः स्यात् स्वाद्वम्लकटुका- त्मकः ॥” प्रायः पदेन व्रीहिः स्वादुरम्लविपाकः । शिवा कषाया मधुपाका । शुण्ठी कटुकमधुरपाके- त्यादिः ॥ * ॥
अथ विपाकानां गुणाः । “श्लेष्मकृन्मधुरः पाको वातपित्तहरो मतः । अन्नअस्तु कुरुते पित्तं वातश्ले ष्मगदापहः ॥ कटुः करोति पचनं कफं पित्तञ्च नाशयेत् । विशेष एष रसतो विपाकानां निदर्शितः ॥” इति भावप्रकाशः ॥ (तथास्य विवरणम् । “नेत्याहुरन्ये । विपाकः प्रधानमिति कस्मात् सम्यङ्मिथ्याविपाकत्वादिह सर्व्वद्रव्याण्यभ्यव- हृतानि सम्यङ्मिथ्याविपक्वानि गुणं दोषं वा जनयन्ति । तत्राहुरन्ये प्रतिरसं पाक इति । केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकञ्चेति तत्तु न सम्यक् भूतगुणादागमाच्चाम्लो विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्द- त्वात् । यद्येवं लवणोऽप्यन्यः पाको भविष्यति श्ले ष्माहिविदग्धो लवणतामुपैति मधुरो मधुर- स्याम्लोऽम्लस्यैवं सर्व्वेषामिति । केचिदाहुर्दृष्टान्तं चोपदिशन्ति यथा तावत् क्षीरं स्थालीगत- मभिमानं मधुरमेवस्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति ।” “किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ॥” इति सुश्रुते सूत्रस्थाने ४० अः ॥)