वाचस्पत्यम्
विप्रयोग || पु० वि + प्र + युज—घञ् । १ विप्रलम्भे अमरः २ विरोधे ३ विसंवादे ४ वियोगे च । ५ रागिणोर्विच्छेदे ।
शब्दकल्पद्रुमः
विप्रयोगः || पुं, (विगतः प्रकृष्टो योगो यत्र ।)
विप्रलम्भः । इत्यमरः ॥ विरहो विसंवादो वा । इति स्वामी ॥ रागिणोर्विच्छेदः । इति सुभूतिः ॥ (यथा, मनौ । ९ । १ । “पुरुषस्य स्त्रियाश्चैव धर्म्म्ये वर्त्मनि तिष्ठतोः । संयोगे विप्रयोगे च धर्म्मान् वक्ष्यामि शाश्व- तान् ॥” संयोगाभावः । यथा, साहित्यदर्पणे । २ । “संयोगो विप्रयोगश्च साहचर्य्यं विरोधिता ॥”)