वाचस्पत्यम्
विप्रलब्ध || त्रि० वि + प्र + लभ—क्त । वञ्चिते, हेमच० “प्रियः कृत्वाऽपि सङ्केतं यस्या नायाति सन्निधिम् । विप्रलब्धेति सा ज्ञेया” सा० द० उक्तलक्षणे नायिकाभेदे स्त्री ।
शब्दकल्पद्रुमः
विप्रलब्धः || त्रि (वि + प्र + लभ + क्तः ।)
वञ्चितः । इति हेमचन्द्रः ॥ (यथा, महाभारते । ५ । १९१ । २१ । “दशार्णराजो राजंस्त्वामिदवचनमब्रवीत् । अभिषङ्गात् प्रकुपितो विप्रलब्धस्त्वयानघ ॥”)